पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। भचक्रोद्यत्कक्षाकलनसहितं ज्योतिषमहो समग्रं जानन्तः स्कुटगणितबीजेषु कुशलाः ॥ ६१ ॥ धनुर्ज्येति । धनुर्ज्याकोटिभुजकक्षादिसंशास्तच्छास्त्रे. उपनिबद्धास्तत्तः एव ज्ञेयाः समग्रं स्कन्धत्रयात्मकम् । स्फुटगणितं पातीगणितम् , बीजमव्यकमाणितम् ॥ भदन्ताः सर्वज्ञा जवृषन्युम्मेन्दुसदन- द्विपद्विट्कञ्जाक्षी वणिगलिधनुर्धारिमकरैः सकुम्भैः सन्मीनैर्द्युमणिशशिभौमज्ञगुरुभिः सुयुक्तं जानन्तः पर इह खगोलं सुमतयः ॥ ६२ ॥ अदन्तर इति । 'स्थाद्भदन्तो ज्यौतिषिको दैवज्ञो दैवलेखकः' इति केशवः । अजो मेषः । वृषः प्रसिद्ध नृथुम्म मिथुनम् । इन्दुसदन कर्कः । द्विपद्विन्द सिंह । का शाक्षी कन्या वणिकू सुला । अलिश्चिक । धनुधौरी धनुः । शेष स्पष्टम् ॥ अथ तकशास्त्रविषयमाह- वितण्डाजल्पौधेर्विरहितसुवादोद्धरगिरः प्रमाणैः प्रत्यक्षादिभिरपि च मैयक्रमविदः अभावान्यव्याप्तिस्मटलसितहेत्वच्छविलस- न्मतिप्रौढा वैशेषिकमतविशेषप्रणयिनः ॥ ६३ ।। वितण्डेति । तत्र खपक्षस्थापनाहीनो परपक्षदूषणमात्राबसाना वितण्डा, उभय- साधनवती नानावतूकपूर्वोत्तरपक्षप्रतिपादकवचनसंदर्भात्मिका ऋथा जल्पः, तत्त्व - भुत्सोः कथा बादः । तत्रैवं व्याख्या---वितण्डाजल्पौधैर्विरहितः शोभनो यो वादस्तेनो. दुरा उत्कृय गीर्येषाम् । प्रत्यक्षादिभिश्चतुर्भिः प्रमाणे यानां प्रमेयाना प्रत्यक्षानुमित्युप- नितिशब्दानां क्रमं विदन्ति । अभावाभ्यो अत्यन्ताभानान्योन्याभावाभ्यां आख्या अ भावघटिता या व्याप्तिस्तया स्फुट लसितस्तद्विशिष्टये यो हेतुधूमो वहिव्याय्यः इत्येवं- रूपतत्र अच्छम विलसन्ती प्रतिभारूपा मतिझनम् । न्यासिविशिष्टहेतुत्ताज्ञानमित्यर्थः । तन प्रौदा । वैशेषिके सप्तपदा ये कामादमते विशेषेण प्रणय आसक्तिर्येषाम् ॥ पुराणज्ञा धर्माधिकरणाविदः कापिलमत- प्रगल्भा योगज्ञाः खरविततसंगीतकुशलाः कवित्वालंकाराद्भुतविविधसंनाटकभिदा- मिधानग्रन्थज्ञा भरतमुनिसूत्रार्थनिपुणाः ।। ६४ ॥ पुराणमा इति । धर्माधिकर स्मतिः अपिलमतं सांस्यशाला। योगः पात-