पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। श्रीसामराजजन्मा तनुते श्रीकामराजकविः । मुक्तककाव्यं विदुषां प्रीत्यै शृङ्गारकलिकाख्यम् ॥ १५ ॥ असमशरबाणवैधव्यथिताङ्गी मीननयना सा । स्मृतदयितसंगमसुखश्लथनीवी जीवितं धत्ते ॥ १६ ॥ अपयास्यति पञ्चशरः षष्ठेऽहनि किं करिष्यति ममायम् । इत्यालम्बितधैर्या मर्यादां नातिचक्राम ॥ १७॥ अवधिं विधाय तरसा दिनपञ्चकमञ्चितं सुभ्रूः । पिकनिकरश्रुूतपञ्चमशब्दा पञ्चत्वमापेदे ।। १८ ॥ अक्षद्यूते विरचितसुरतषणे प्रेयसि प्रसभम् । आलोक्य सखीक्दनं साचिमुखी1 प्राहसद्बाला ॥ १९ ॥ अतिकठिनं कृष्णमुखं स्तनयुगलं भाति जलजाक्ष्याः शृङ्गारपूर्णकलशद्वयमिव मदनस्य मुद्राङ्कम् ॥ २० ॥ अतिशयितप्रीतिजुषोरकलितचिबकं नताधरं यूनोः । श्रुतशब्दमात्रमहृताधररागं चुम्बनं जयति ॥ २१ ॥ अवतार्य भूषणचयं यावत्स्नातुं समेति हरिणाक्षी। तावत्क्षुतवति मयि सा पुनर्दधौ नासिकाभरणम् ।। २२ ।। आगामिनि बुधवारे भविता सखि मङ्गलो वारः । श्रुत्वा चकितेऽन्यजने स्वयमादित सा कदम्बसौभाग्यम् ।। २३ ॥ आश्लेषलालसे सति दयिते बाहू रसात्प्रसारयति । नैजाङ्गुलित्रयमियं नतानना दर्शयामास ॥ २४ ॥ १. कामराजदीक्षितसुतेन व्रजराजदीक्षितेन रचिता, (१) रसिकरञ्जनम्, (२) वल्लभाख्या नाटिका, (३) शृङ्गारशतकम्, (४) षडृतुवर्णनं चेति अन्य चतु- ष्टयी प्राप्तेति (The odor Aufreohts Catalogus catalogorum).