पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारकलिकात्रिशती। इयदेव मानिनीनां संमाननमानतानने भाति । यद्धूलिधूसरालककलिक एष ते प्रियः पुरतः ॥ २५ ॥ इङ्गितमेव मनोगतमस्याः स्फुटमातनोत्यभिप्रायम् । यदनिशमेषा बाला वातायनसंश्रिता भवति ॥ २६ ॥ ईप्सितमस्याः कः किल वेद यदेषालिमध्येऽध्वम् । रोषकषायितसालसनयना सहसा स्थिरीभूता ॥ २७ ॥ ईदृशमेव तवेदं रूपं द्रष्टुं मदीयनयनयुगम् । धृतजन्म जन्मभाजां नवं नवं प्रीतिमावहति ।। २८ ।। ईश्वर एव जगत्यां शृङ्गाररसीयसारवेत्तास्ति । यः सर्वदार्धनारीभूतशरीरो वियोगभीत्येव ।। २९ ।। उद्गतकुचां नवोढां वीक्ष्य तथा परिचचारार्या। भर्तुः प्रसादमनिशं प्राप यथा सा त्रियामार्धम् ।। ३०॥ 'उन्नमितकर्णयुगलं किमु धावसि गानलोभेन । गन्धवहपूरितान्तरकीचकशब्दोऽयमुल्लसति ॥ ३१ ॥ उद्भिन्नस्तनमुकुलां प्रतिवेशिवधूं विलोक्य युवा । क्रीडति जम्बीरयुगं निजमधरं दशति साकूतम् ॥ ३२ ॥ ऊर्ध्वज्ञुस्थितमर्धासनोपविनिवेशितैककरम् । ऊर्ध्वमुखमूर्धितैकस्तनमस्या लीलया दृषत्क्षेपः ॥ ३३ ॥ ऋद्धिं परस्य वीक्ष्य प्रतिवेश्मा मोदमावहति । सत्यपि विभवे गृहिणी भूषासु मनो न संधत्ते ॥ ३४ ॥ ऋजुरबला पतिमूचे मन्मातृगृहादयं प्राप्तः । उपचार्यतामितीत्थं गोपायत्यसमयागतं जारम् ॥ ३५ ॥ ऋक्षाणि मौक्तिकानि प्रसारितान्यङ्गणे नभसि । चन्द्रेण रागिणा किं पूर्वाशावारवनितायाः ।। ३६ ॥