पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

आनन्दमन्दिरस्तोत्रम् । त्वत्पादपद्मविनतस्य न तस्य कस्य । संकष्टसंतपनमस्तमियात्समस्तम् । पूर्णेन्दुसुन्दरतराञ्चितचन्द्रिकायां कां यान्ति हन्त गतिमाशुन न वा तमांसि ॥ ३ ॥ देवि त्वदीयपदपङ्कजसेवकानां का नाम संभवभवोद्भटत्तापभी: स्यात् । किं चात्र चित्रमधिकं सरति स्मृतेऽपि तापस्तु तद्ध्वदि यदां नितरां विलग्नम् ॥ ४ ॥ देवि त्वदीयवरकार्यविधानरिक्तः सिक्तः स किं न सुधया सस्वद्रिशा भवत्या । बालेऽपि मय्यविनयेऽपि नवेऽपि मातः किं ते पुनः समुचिता न दयार्द्र्दृष्टिः ॥ ५ ॥ त्वद्भक्तिभावविभवेऽप्यभवं न भव्यः श्रीभूतभूपभविकाद्भुत्भागग्धेये । बालोऽपि बालश्विषणोऽपि च बालिशोऽपि नो संकटेऽद्य विकटे किमयं दयार्हः ॥ ६ ॥ त्वच्छक्तिरेव कवने मनने मतीनां स्त्रीणां घने, निधुवनेऽप्यवने वनेऽपि । सैवासि मां किल विलोकय दीनदीनं हीनं धियेन्दुसदृशा स्वद्रिशा चकोरम् ॥ ७ ॥ प्रातर्नटन्नलिनकान्तिनवामनानां पूजासभाजिततनूततिर मङ्गलानाम् । शोणाम्बरा सुरपतेर्दिशिव प्रकामं कामं, तनोतु निभृतं मम संकटा सा ॥ ८॥