पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६ नानावतारचरितैर्भुवि भक्तकार्य धुर्य मुदा कृतवती भवती भवानी मां बालकं निजनवस्नुषया विधाय मातर्वियोगिनमिदं तब किं नु योग्यम् ॥ श्रीसंकटे भगवति स्फुटसंकटान्नः त्वं पाहि पाहि परिपाहि भवानि पाहि। वन्द्यैः कवीन्द्रतिलकैः किल कीत्यते ते रात्रिंदिवं यदिह नामं तु संकटघ्नी।। १० ॥ बद्धाञ्जलिस्त्वदुपकण्ठमकुन्ठकण्ठ- मुत्कण्ठितस्तु कथयामि महाप्रमादी । बालस्तवैव च वधूश्च जनी तवैव सङ्गेन ते कथमये हृदयं दयार्द्रम् !॥ ११ ॥ लोकेऽपि चेन्नु तनयस्तनुते प्रमादा- द्यद्यन्यथा विरहिणं स्नुपया न माता । त्वं तत्कथं वितनुषे स्नुषया वियोगं योगं च मामतिदये कथयात्र मातः ।। १२ । ते संकटेऽद्य विकटे निकटे भवानि बालारतवैव विलसन्ति तवेैव वश्वः ! ताँल्लालयस्यथ न मां किमहं दृशोस्ते रम्यः पुरः समभवं न भवन्महागाः ॥ १३ ॥ नित्यास्यथो विभुरसीश्वरभागधेये चञ्चच्चराचरचरित्रविचित्रभित्तिः । तस्मान्ममापि हृदये सदये स्थितासि मातर्मयीह कुपितासि रयात्क्क यामि ॥ १४ ॥