पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६५ इन्दुदूतम् । मौनध्यानाधमलविविनाराधिताचार्थमनं सेव्यं देवरुपपदगतैर्ब्रह्मचर्यानुरक्तैः । नम्रप्राणिप्रकरविविधप्रार्थनाकामकुम्भं दान्तं शान्तं मृदुमपमदं निःस्पृहं वीतदम्भम् ।। ११०।। विद्यावद्धिः सुभगतनुभिश्चारुचारित्रवः श्रीगुर्वाज्ञाविनयनिपुणैः सेवितं साधुवर्यैः । श्रद्धालूनां पृथुपरिषदि पौढधाम्ना निषण्णम् त्रायस्त्रिंशैरिव परिगतं संपदीन्द्रं सुराणाम् ॥ १२० । वन्देथाः श्रीतपगणपतिं सार्वमैदंयुगीनं पीतं पुण्यप्रभवमुदधेर्नन्दनत्वं लभेथाः । प्राच्यैः पुण्यैः फलितमतुलैस्तावकीनैः सुलब्ध- जन्मैतत्ते नभसि च गतित्नाविनीते कृतार्था ॥ २२२ ।। (चतुर्दशभिः कुमान अद्यानथैर्गलितमकलैः पापशङ्कैर्विलीनं क्षीणं दोषैर्गलितमशिवैर्दुष्टकष्टैः प्रणष्टम् । रुग्णं रोगैर्म॒तमनुशयैर्विप्रयोगैर्विनष्टं सर्वातङ्कोपशमनिपुणं द्रक्ष्यसि श्रीगुरुं यत् ।। १२ ।। पुण्यादस्माद्भृशमुपचितात्किंवदन्तीकलङ्क- स्यैषा यास्यत्यमृतकर भो निष्कलङ्कं भवन्तम् । मन्येऽवश्यं शतगुणवृणिं सत्वरं वीक्षिनादे सर्वाभीष्टं फलति न चिराद्दर्शनं हीदृशानाम् ।। १२३ ।। हृद्यातोद्यैर्मुखरमुरजैर्गायनानां च गीतै. र्गायन्तीनां गुरुगुणगुणांश्चारर्वैः श्राविकाणाम् । ५ चतुर्दशगु०