पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विश्वगर्भस्तवः । काका मेचकिता बका धवलिताः पारावता धूमिलाः कीराः श्यामलिताः पयो मधुरितं निम्बद्रबस्तिक्तितः । तिन्तिण्याः फलमम्लितं च भुवने येनाखिलेशात्मने तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ६२ ॥ कर्णद्रोणरणमरूढयशसः पार्थस्य कृष्णे गते तन्नारीजनतस्करैः परिभवो येनाधिको लाम्भतः । कर्तोत्कर्षनिकर्षयोस्तनुभृतां कालोऽप्यसौ यन्मय- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये॥६३ ।। तत्काले निदधाति वारि मधुरं यों नालिकेरोदरे शृष्ट्वादर्दुरमश्मगर्भकुहरे वृत्तिं विधत्ते च यः । नीरक्षीरविवेचने च पटुतां हंसस्य पुष्णाति य- स्तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ६४ ॥ बातः शोषयितुं पयः स्नपयितुं वह्निः प्रदग्धुं पयो- वाहो वर्षितुसुष्णदीधितिरभिव्यङ्क्तु पटुर्भाव्यते । शक्त्यावेशवशेन यस्य जगतामीशस्य विश्वात्मने तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ६५ ॥ तिष्ठत्यप्सु मही त्रिविष्टपमनालम्बेऽम्बरे नाम्बुधि- र्मर्यादामतिलङ्घते न सवितोदेति प्रतीचीमुखात् । स्यन्दन्ते सलिलानि धूमवपुषो मेघाच्च यस्येच्छया तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ६६ ॥ सृष्ट्वा यस्त्रिदिवं नृणां सुखमयं धर्मं च तस्याप्तये दुःखैकायतनं विधाय नरकं तस्याप्तये चाप्यघम् । यः पश्यन्द्विविधान्नरान्फलयुगं भोक्तन्परिक्रीडते तस्सै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥.६७॥ ३ चतुर्दशगु० TRA