पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

आयुष्यं तरलं हिमाम्बुकणिकां दूर्वादलाग्रच्युता- मवेत्येव तनुः पुनः कमलिनीपत्रोदबिन्दूपमा । संपत्तिश्च तडिल्लतेव चटुलेत्यालोच्य शान्तीच्छया तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ६८ शश्वत्कर्म चरन्भवन्भव भवेत्येवं म्रियस्व भ्रिय- स्येत्येवं म्रियमाण एष निरयान्हा भुङ्क्ष्व भुङ्क्ष्वेति च । भुञ्जानो व्यसनं प्रयाति विपुलं तन्मां दयखेत्यहं तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ।। ६९ ।। यमित्रावरजौ निशाचरपतेर्भ्रातुः स्वसुश्च श्रवो- नासच्छेदकृतौ दिगीशजयिनो नाथं श्रितांस्तं नरान् । नेक्षन्ते यमकिंकरा इति विदंस्तस्याश्रयाकाकाङ्क्षया तस्मै प्राञ्जलिरस्मि दाशरथये श्रीजानकीजानये ॥ ७० ॥ यत्पातादशुचिर्महीति जनने खात्या निधायानलं नीत्वा वत्समितः पुनन्ति मनुजा मेध्यं कथं तद्वपुः । कुर्वस्तस्य परिग्रहो मम पुनर्मा भूदिति प्रार्थनां तस्मै प्राञ्जलिरस्सि दाशरथये श्रीजानकीजानये ।। ७१ ।। यावन्तोपगतेषु जन्मसु पुरा देहाश्च्युतास्तावतां बुद्ध्या संकलने तु वेम्नि कुणपच्छन्नां समस्तां महीम् । एवं भावितनूगणग्रहणजं क्लेशं जिहासन्नहं तस्मै प्राञ्जलिरसि दाशरथये श्रीजानकीजानये ।। ७२ ॥ १. 'आयुष्य तरला इत्येकस्मिन्पुस्तके,