पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। खेदाम्बुसंकुलविलोलकपोलपालि शालिभ्रमद्भ्रमरकालि विलासवल्गत् । तुन्देन्दुबिम्बगतलम्बि भुजंगमञ्जु तत्स्याद्भवानि वदनं सदनं मुदां नः ॥ ४५ ॥ सत्कर्णभूषणसुवर्णमिलन्मसार- माणिक्यममञ्जुलमयूखविभाभिरामम् । स्वर्णाद्रिकीर्णमनि पृश्निवरेण्यवर्ण तत्स्याद्भबानि वदनं सदनं मुदां नः ॥ ४६॥ नासासु मौक्तिकमयूखसमूहसान्द्रं निस्तन्द्रचन्द्रकलितं वसुमेरुशृङ्गम् । कस्तूरिकाङ्कितमिव स्फुरदिन्दुबिम्बं तत्स्याद्भवानि वदनं सदनं मुदा नः ।। ४७ ।। पञ्चेषु पञ्चविशिखेषु विभावभूता लीलालसत्तिलसुमाच्छरमाभिरामा । मुक्तावलीवलितमञ्जुलमण्डना सा नासा विनाशयतु तापमगेन्द्रजायाः ॥१८॥ वैधेयधुर्यधिषणा निगदन्तिसाम्यं सद्वजीवकुसुमे न हि यस्य तस्य । तत्स्यात्सुधारसभरं यदि सोऽपि तुल्यः कल्याणमाकलयतादधरः शिवायाः ॥ १९॥ सद्विद्रुमद्रुमदलद्रवदामवामा निस्तन्द्रचन्द्रकरसान्द्ररमाभिरामाः । चज्नव्रजोज्ज्वलतलाः शशिमौलिकान्ता दन्तांशवो विदलयन्तु ममाद्य दुःखम् ॥ ५० ॥