पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

आनन्दमन्दिरस्तोत्रम् । हेमप्रभौ विमलबालमृणालनाल- लीलाहरौ सुरुचिरौ गिरिराजजन्याः । सत्कान्तिकान्तमणिकङ्कणपृश्निपूर्णौ पाणी शिरीषमृदुलौ तनुतां मुदं नः ॥ ३९ ॥ श्रीकण्ठकण्ठपटलप्रकटां कपाली- शालीनतोद्गमवती गिरिराजपुत्र्याः । लीलातता भुजलता तनुतां विलासं लेखेव काञ्चनभवा निकषोपलस्था॥४०॥ स्वर्णाभवर्णशुभशङ्खवरेण्यशोभो लोभोल्लसद्गिरिशबाहुविलासशाली। लेखात्रयेण ललितः शिखरीन्द्रपुत्र्याः कण्ठः स कुण्ठयतु तापमकुण्ठनादः ॥ ११ ॥ रम्भानवोदितलसद्दलमध्यसुप्त- व्यालीव मञ्जुलविलासकला शिवायाः । सद्यक्षकर्दमविमर्दमनोभिरामा वेणी सुवर्णसुषमा महिता मुदे स्यात् ।। ४२ ॥ यत्साम्यमाप्तुमतुलं सुतपस्तपन्ति सन्मानसे सरसिजानि नतानि तानि । ऐन्द्री दिगङ्गणविजृम्भितमानुभानु- भास्वद्भवानि वदनं सदनं मुदां नः ॥ ४३ ।। व्योमाङ्गणभ्रमणविभ्रमसंभृताङ्गः प्राप्यापि पर्वणि शशी स यदीयसाम्यम् । पश्यन्यदीयसुषमाभसमां क्षिणोति तत्स्याद्भवानि वदनं सदनं मुदां नः ॥ ४४॥