पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४४ काव्यमाला ।

अद्य श्वो वा सुकेश्याः वयमपि च पदं मीनकेतुः शरीरे कर्तेत्युत्प्रेक्ष्य भूयो भयचकितमितः शैशवं गन्तुमीहे(मैच्छत्)॥'

अपि च-- 'दृष्टिः शान्तमपाङ्गमेत्य नितरामारात्परावर्तते द्वित्राण्येव पदानि हन्त तरलं मन्दं पुनर्गच्छति । यूनां धैर्यपयोनिधेश्वुलुकने कुम्भोद्भवा काप्यसौ स्वल्पैरेव दिनैर्दशा वरतनोरन्या वरीवर्तते ॥'

'वृद्धिं यति नितम्बो जठरं तनुतामुपैति किं करवै । उद्धूनं मम हृदयं देहि किमप्यौषधं मातः ॥'

'(परि)पश्यति हृदि भूयो जीवातुं प्राणनाथस्य । कुचयुग्ममम्बुजाक्षी निधिमिव लब्धं दरिद्रजनः ॥'

'हस्ते धुता(न)ञ्चयति प्रतीकान्पृष्टा कथंचिन्न ददाति वाचः । मन्दाक्षभीतिप्रचुरा नताङ्गी नाङ्गीकरोति प्रियचेष्टितानि ॥' 'विश्वासभीतिचञ्चलमञ्चलमक्ष्णः प्रिये तनोत्येकम् । अपरं लीलाललितं कृत्रिमपुत्रे मृगीनयना ॥'

समानलज्जामदना मध्या । सा चोद्यतयौवना । तस्याश्च धैर्ये वक्रोक्तिरधैर्ये परुषवागित्यादयश्चेष्टाः ।

यथा--- 'कामः प्रेरयति प्रिये प्रणयिनीं दृष्टिं परं पक्ष्मलां व्रीडां वारयति व्रजत्यथ वचः कामाज्ञया वल्लभम् । लज्जाखण्डितमेति तन्न वदनात्कन्दर्पमन्दाक्षयो- र्वैषम्ये सति रङ्कुशावकदृशोर्दोलायतीवान्तरम् ॥'

पतिमात्रानुरक्ता सती विविधकलाकलापकोविदा प्रगल्भा । सत्यन्तं