पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारामृतलहरी । १४५

सामान्यबनितायामतिव्याप्तिनिरासाय विशेप्यदलदानान्न मध्यायामतिव्याप्तिः । अस्याश्च रतिप्रीतिरानन्दात्संमोहः ।

आद्या यथा--- 'कृत्वा काम सुरतमहोत्साहं तं प्रेयांसं सा जिगमिषुमारात्प्रातः । बाला भूयो वलयितबाहुक्रोडे धृत्वास्वाप्सीन्मुकुलितनेत्रा जोषम् ॥'

द्वितीया यथा--- 'रचितविविधकाकूक्तिप्रचारे पुरस्ता- त्प्रणयिनि सखि धन्या मानभाजः पुरन्ध्र्यः । स्पृशति मम तु नीवीं नैव जाने स्वमस्मि- न्न च मनसिजकेलिं न प्रियं किं करोमि ॥'

मुग्धाया अत्यन्तं मानासत्वेन लज्जाप्राधान्येन च वक्रोत्यादेरसंभवात्प्रत्येकमवस्थायां मध्याप्रगल्भे त्रिविधे । धीराधीराधीराधीरा चेति । व्यङ्ग्यकोपप्रकाशा धीरा । अव्यङ्ग्यकोपप्रकाशाधीरा । व्यङ्ग्याव्यङ्ग्यकोपप्रकाशा धीराधीरा । मध्याधीरायास्तु कोपस्य वक्रोक्तिर्व्य॑ञ्जिका । अधीरायाः परुषवाक् । धीराधीरायाश्च वचनरुदिते कोपस्य प्रकाशके । प्रौढाधीराया रतौदास्यम् । अधीरायास्तर्जनताडनादि । धीराधीरायास्तु तदुभयं कोपस्य व्यञ्जकमिति दिक् । धीरादिभेदाः स्वीयाया एव न परकीयाया इति प्राचीनाः । न च धीरादिभेदानां माननियतत्वात्परकीयास्वपि तत्संभवात्संभव इति वाच्यम् । गुणानुरागद्रव्यलोभादनुरक्तयोः परकीयासामान्यवनितयोर्मानासंभवान्न धीरादिभेदास्तयोः । जातस्यापि मानस्य प्रणयनाशकत्वेन दुःसाध्यत्वाद्रसाभासोऽनुभवसिद्ध एवेति संप्रदायविदः।

१. चतुर्दशगु.