पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सीतास्वयंवरकाव्यम् । ११७ पदे पदे निन्दितधार्तराष्ट्रा पराक्रमं कर्तुमशक्नुवन्तः । वरा इतीमे हृदि मन्यमाना कृष्णेव सा संसदमाप सीता॥ ४५ ॥ (युग्मम्) रराज तद्राजसभागता सा सुधासितानां सविधे ग्रहाणाम् । सुरासुरैः क्षुब्धसुदुग्धसिन्धोः पारश्रिता श्रीरिव चारुरूपा ॥ ४६ ॥ जितो गतेनैव गजः सुराणां भ्रुवा धनुः कल्पलताङ्ग्यष्ट्या । तया कटाक्षैः किल कल्पवृक्षा जिता नृपाः कामदुघापि दृष्ट्या ॥ ४७॥ जितेन्दुवक्रं जितरम्भमूरुं युगं तु कण्ठो जितकम्बुरस्याः । अङ्गैरियं निर्जितसर्वरत्नैः कृता विधात्रा बहुलप्रयलैः ॥ ४८ ॥ अस्यां स्थितायां जनकात्मजायां लोकावलीमध्यमणिप्रभायाम् । रत्नार्थिभिर्दानवदेववृन्दैर्मुग्धैः स दुग्धाम्बुनिधिर्ममन्थे ॥ ४९ ॥ न खञ्जनो विस्मयते निरीक्ष्यैतस्या विशालं चपलं च चक्षुः । विलोक्य को धैर्यमुपैति लोके न खञ्जनो यस्य तुलामुपैति ॥ ५० ॥ अस्या भ्रुवो ये धनुषः कटाक्षैः शरैः स्मरस्यापि जिता युवानः । तज्जेतुरीशस्य कथं धनुस्ते सज्यं विधातुं मनसापि शक्ता ॥ ५१ ॥ विलोक्य तां लोकनमस्कृताङ्गीमनुष्टुवन्नप्सरसो रसोल्वैः । इत्थं वचोभिः सुमनस्तरूणामपूजयँस्ताः सुमनोभिरेताम् ॥ ५२ ॥ (कुलकम्) राज्ञां तदालोकनलोलुपानां मनः परं दृष्टिषु संक्रमय्य । आसीस्थितानामतिविस्मितानां मनुष्यभावेऽप्यनिमेषवत्त्वम् ॥ ५३ ॥ विलोक्य तस्या वदनं सुधांशुं कन्दर्पपाथोनिधिवृद्धिहेतुम् । विकाशमीयुर्भस(र्भृश)मुल्लसन्ति तेषां मनःकैरवकोरकाणि ॥ ५४ ॥ निपीय रूपं हृदि सस्मरुस्तद्विलोकनायामरनायकं ते । तथार्जुनं तत्परिरम्भणाय स्तवाय शेषस्य सहस्रशीर्ष्णः ॥ ५५ ॥