पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११६ काव्यमाला । रथोत्तमान्सारथयो यथा स्वं तथा पृथक्चक्रुरथो हरिभ्यः । भारौह एके विदधुर्विभारान्क्रमेलकान्मेलितभृत्यवर्गाः ॥ ३४ ॥ वैदेहसूदैरुपकल्पितं तद्धृतप्लुतं स्वादु चतुर्विधान्नम् । तिक्तोषणाम्लैर्लवणैः कषायै रसैर्लसद्व्यञ्जनवर्गसंस्थैः ॥ ३५ ॥ सर्वे तथा भूमिभुजोऽप्यभुञ्जन्हैमेष्वमत्रेषु सभृत्यवर्गाः । वीक्ष्यामरा यद्बहु मेनिरे खात्सुधाधिपत्वावसुधाधिपत्वम् ॥ ३६ ॥ शुभे तिथावृक्षगुणोपपन्ने लग्ने तथा दीनबलेशहीने । रङ्गे महामण्डनमण्डिताङ्गं राजा महाराजकमाजुहाव ॥ ३७ ॥ रङ्गान्तरं लोकवरं वरास्ते समं समासेदुरदीनसत्त्वाः । आकर्णितेनाद्भुतवर्णनेन गुणेन कृष्टा इव कन्यकायाः ॥ ३८ ॥ मयेन या रत्नमयेन सृष्टा द्रव्येण नव्येन पृथासुतस्य । जिता सभा येन विराजितापि ते मण्डपे मण्डनतामवायुः ॥ ३९ ॥ ततो नभःस्तम्भितभासुरोच्चविमानवातायनलम्विबिम्बैः । सीताविवाहागतपार्थिवानां स्वर्गीयवर्गैः समलोकि लोकः ॥ ४० ॥ देवा नृदेवा अपि पूर्वदेवा रक्षांसि यक्षाः प्रतिकर्मदक्षाः । नागाः सुपर्णा अपि हेमपर्णाः समाययू राजसुताविवाहे ॥ ४१ ॥ तस्मिन्समाजे न ममुर्न लोकास्तत्रानुमानं त्वहमेतदूहे। यद्दर्शितं स्वीयमुखे जनन्यै जगच्चरस्थावरमच्युतेन ॥ ४२ ॥ नृपः श्रिया निर्जितकामरामां श्यामां महीमण्डलमण्डनाभाम् । धात्रीकरालम्बितचारुमालां बालां समाजेऽथ समाजुहाव ॥ ४३ ॥ अहं निराधिर्न मृणालिनीव विना हरिं स्यामिति तर्कयन्ती । मुहुर्भयं किंचन चिन्तयन्ती दुःशासनाच्चेतसि रावणाच्च ॥ ४४ ॥