पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारकलिकात्रिशती । १०९

लिखति स्म मदनलेखं कमलदले नखरलेखन्या । पञ्चेषुरेष षष्ठं कथमकरोदिन्द्रियं क्षुब्धम् ॥ ५७ ॥ लीलादृषदुत्क्षेपोत्तरलितताराम्बुजाक्षी सा । स्वसखीमध्यनिविष्टा वलभीं तव पश्यति प्रसभम् ॥ ५८ ॥ लुलितालका वरोरूः समागते नैजगृहनाथे । अर्धोन्मीलितनयनं देवरमभिवीजयामास ॥ ५९ ॥ लूनामपि तिलबाटीं विलोक्य हलिकाङ्गना परितः । न बभार दुःखमन्तर्द्रष्टव्या कोशशणवाटी ॥ ६० ॥ लेखसमर्पणसमये क्रोधाविष्टे धराधिपतौ । राज्ञी जगाद कथमिव हन्तव्योऽयं मदीयकायस्थः ॥ ६१ ॥ लैङ्गिकमवापिता सा सख्या विरहाकुला बाला । नतिमिषतस्तमवादीदधुना शरणागताहमिति ॥ ६२ ॥ लोलनयनस्य पुंसः सविधेऽन्यजनस्य हृतवती चित्तम् । चैलाञ्चलसंयमनव्याजादमिदर्शितैककुचा ॥ ६३ ॥ लौहित्यं स्फटिकान्तः संक्रान्तं कौसुमं प्रदर्शयतः । सत्रासमन्यमेनं नतानना दर्शयामास ॥ ६४ ॥ चलिता प्रवसति दयिते द्वारोपान्तेषु गुन्द्रसलिलेन । अभिषिञ्चति साकूतं शंसन्ती त्वरितपरिवृत्तिम् ॥ ६५ ॥ लङ्घितुमसमर्थोऽयं दाक्षिण्यं वितथदत्तयन्त्रायाः । बहु मानयति कटूक्तिं तद्यातृप्रेमयन्त्रितो मन्त्री ॥ ६६ ॥ वारं वारं सुतनुर्द्वारमुपागत्य वीक्षतेऽश्रुमुखी । नो यास्थतीति प्रथमप्रस्थितकान्तस्य साध्वानम् ॥ ६७ ॥ विधिवन्नैजपुरोहितपूजायां चरणसंस्पर्शे । वनितायाः करयुगलप्रस्वेदेनाभवत्पाद्यम् ॥ ६८ ॥