पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११० काव्यमाला ।

वीरुन्निकुञ्जभवनं कोटरपारावतालिहुङ्कारैः । सुरतप्रवृत्तयूनोरनुकुरुते मणितमिव सततम् ॥ ६९ ॥ वेत्रं सहासदेवरकरोद्धृतं वीक्ष्य जलजाक्ष्याः । वेणीदण्डाहतिततिसंक्रमितः पृष्ठतोऽपि च स्नेहः ॥ ७० ॥ वैशसमात्मप्रेम्णोर्विलोक्य सा नावदद्दूतीम् । स्मरमपवर्तिततारकमालिख्य चिरं निदाधतप्त(भुवि)भूमौ ॥ ७१ ॥ वौषट् प्रातर्मन्त्रं कोऽन्तर्युक्त्वा स्थिते तूष्णीम् । अध्वर्युर्न जुहोति द्यावाभूम्यन्तरं पश्यन् ॥ ७२ ॥ वञ्चनचतुरः कुतुकी यतमानो वेदिकामध्ये । विष्णुक्रमणं बहुशस्तनोति मन्त्रं विना चित्रम् ॥ ७३ ॥ शयने निद्रापगमात्ताम्यन्मनसोः स्वगौरवत्रतयोः । कृकवाकुरुतं श्रुत्वा जयतितरां किमपि तद्यूनोः ॥ ७४ ॥ शातमृगराजनखरत्रुट्यत्करिकुम्भमुक्तमुक्ताभिः । अध्वानमीक्ष्य कीर्णं मोदं खेदं दधौ समं बाला ॥ ७५ ॥ शिव शिव शिबिरं त्यक्त्वा किं करवै सखि बहिर्गतो दयितः । साकूतं च सहासं मया समाकुञ्चिते देहे ॥ ७६ ॥ शीतोपचारनिकरं शिशिरे सहतेऽम्बुजाक्षी सा । सोऽपि तदीयकुचद्वयसंस्पर्शात्खेदमावहति ॥ ७७ ॥ शुद्धं दिनं पतिगृहं प्रेषयितुं पितरि पृच्छति द्विजं कन्याम् । आकर्ण्य संमुखीनं शुक्रं सा मोदमाधत्ते ॥ ७८ ॥ शूलं दत्त्वा स्कन्धे पुनरित्थमिति प्रतर्पितो जगदे । अद्यापि न मम हृदयादपयान्ति तदीयनयनान्ताः ॥ ७९ ॥ शेवधिमिवाधिगम्य प्रियाकुचद्वन्द्वमथ मनसि । कुर्वन्मनोरथशतं जज्ञे कर्तव्यतामूढः ॥ ८० ॥