पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०६ काव्यमाला । भौकलिमाणसस्थं ददती भक्ष्याणि पृच्छती वातास् । कनकमयपञ्जरान्तरतत्क्षणमभिवेशयामास ॥ २१ ॥ भङ्गविभङ्गीलोलां गङ्गायां वीक्ष्य कलहंसीम् । हंसं गवेषयन्तीं पथिकः श्लथगात्रतामाप ॥ २२ ॥ मधुपः कुसुमं मालाकारिणि न जहाति ते लुब्धः । नापैति वारितोऽपि हि किङ्करवैधृष्टमधुपेऽस्मिन् ॥ २३ ॥ मालाकारिणि मालामेनां कण्ठे ममार्पय प्रीत्या । एषा भवति महार्धा परतन्त्रां मां विजानीहि ॥ २४ ॥ मितभाषिणि तनुमाने सुरसे धृतलाघवासि तनुमाने । कथमिव सुरतौ दास्यं कुरुते तन्वति मयि रतौदास्यम् ॥ २५ ॥ मीलतु कुमुदं चन्द्रः प्रयातु चास्ताचलं रविरुदेतु । प्रभवामि नाम्बुजाक्षीं परिमोक्तुं निजभुजक्रोडात् ॥ २६ ॥ मुषितरदनक्षतादरमपहृतनखरक्षतं तन्व्याः । कूणितनेत्रप्रान्तं तस्याः स्मरचेष्टितं स्मराम्यनिशम् ॥ २७ ॥ मूकः केतकपत्रं मुग्धामालोक्य पाटयामास । सापि करस्थितमम्बुजमधोमुखं व्यतनुत प्रसभम् ॥ २८ ॥ मेषादीनां गणके कथयत्यायव्ययौ क्रमशः । पृष्टस्तृतीयभावं कया स जगाद समं भावम् ॥ २९ ॥ मैरेयघूर्णिताक्षिणि पृच्छत्यर्धं सहासमथ यूनि । अपहृतचेलाञ्चलया जगदे करकद्वयं गृहाणेति ॥ ३० ॥ मोचयति जीवितेशे पश्चान्मम कञ्जकीबन्धम् । उच्छिन्नबन्धमूल: पुलकः समभूत्सखि ममाङ्गे ॥ ३१ ॥ मौहर्तिकेन कथिते प्रवासदिवसे स्वगेहपतेः । गमनागमने भित्तेरपाकरोतीष्टिकाः सुभ्रूः ॥ ३२ ॥