पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारकलिकात्रिशती । १०५ बीजं कामः कन्दो जघनं नाभिस्तथा वालम् । कुचमुकुलमुकुलितोऽस्या रोमालीभूरुहो जयति ॥ ९ ॥ बुध एव सवितृसंनिधिवसतिस्त्यक्तोद्गतिः सततम् । अप्राप्तोऽप्युदयं यः कुशलं सकलस्य चिन्तयति ॥ १० ॥ बन्धयसि केशपाशं तथैव यूनां मनांसि नयनानि । चित्रायतस्य युक्तौ भवति न वा मुक्तिरेतेषाम् ॥ ११ ॥ भसितोद्धूलितदेहो दिगम्बरः कृत्तिमाञ्जटिलः । सोऽपि तिलतण्डुले यदि निरतः सकलैः किमपराद्धम् ॥ १२ ॥ भावं विज्ञातुमना मानिन्यास्तिर्यगालोक्य । द्वारोपान्ते विहसति वदत्यकाण्डे पुलकिताङ्गः ॥ १३ ॥ भित्तौ यूनि विरूढां तिलपुष्पीं दातुमायाते । सा निजपार्श्वविरूढामलुनात्तिलपुष्पिकां सकलाम् ॥ १४ ॥ भीरु तवायं को वा दुराग्रहो गुरुजनप्रश्ने । तावत्समयो यास्यति भिषजम्त्वद्दर्शनावशेषस्य ॥ १५ ॥ भुवनाधिनाथ भवता भवतापहरं किमाचरितम् । विरतिः श्लोकपदादौ प्रतिभाति न मानमान्तर्मे ॥ १६ ॥ भूषणपरिग्रहार्थं पेटीं सविधे समादधाना सा । हसितामालोक्य सखी तां च यथावभ्यितामकरोतु ॥ १७ ॥ भेषजमुपागतवति चिकित्सके दातुमबलायाः । वीक्षति नाडी लोको वैद्यान्तरमाजुहावाशु ॥ १८ ॥ भैमीभामाकररुहलालितपरिसंकुचच्चरणाः । स जयति कृष्ण: सस्मितवदनस्ताभ्यां सहासमुपदृष्टः ॥ १९ ॥ भोगिनमालोक्य करे शम्भोरपसारितकराब्जा । गिरिजा जयति करग्रहपरिचालितपाणिलेशेऽपि ॥ २० ॥