पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारकलिकात्रिशती । दोःपल्लवद्वयेन च्छादयति प्रियतमे प्रियानयने । पृच्छन्ती केति सखीमुत्तरयामास पुलकैः सा ॥ ६३ ॥ दौर्वाससमिव शाप शकुन्तला दयितसंगमे प्राप । बाला गुरुजनयन्त्रणमकृतरजोदृष्टिशान्तिविधिः ॥ ६४ ॥ दंदं मुहुर्वदन्ती निवेश्य वृद्धं पतिं सदने । पुलकितगात्री यवनी प्रययौ प्रतिवेशिना सह मदारम् ॥ ६५ ॥ धनुषा कुसुममयेन स्मरस्त्रिलोकीं विजेतुमसमर्थः । बाले कलयति भवती स स्तनगुलिकां धनुर्वल्लीम् ॥ ६६ ॥ धात्रे पिकाभिशिक्षितमक्षरयुगलं वदति बाले । बाले गुरुजनपुरतस्तव पतिमालोक्य हसिताहम् ॥ ६७ ॥ धिङ्मां चञ्चलहृदयामित्यात्मानं निनिन्द मदिराक्षी । आलोक्य मधुपरहितं कुञ्जं कुसुमाकरे काले ॥ ६८ ॥ धीरा विलासरभसा तस्याः प्रतिवेशिभिरकारि । सापि तथैवास सदा नमः सतीधर्मदैवाय ॥ ६९ ॥ धुन्वन्त्यां निजवसनं धूलीभिर्धूसरं तन्व्याम् । प्राप्तं मम लोलाभ्यां जनुषः साफल्यमक्षिभ्याम् ॥ ७० ॥ धूसरितं धूलीभिः शरीरमेतत्क्षतं च गोक्षुरकैः । भग्ना वलयाली मे तदपि विधेयो नियोग आर्यायाः ॥ ७१ ॥ धेनूनां धेनुभ्यः पुरोधसे शतमदान्न धेनूनाम् । सारं भासारम्भा सुरकरमस्याः स्म पश्यति स सारम्भः ॥ ७२ ॥ धैर्येण सखीवचनात्कृतमाना सा निनाय निशाम् । श्रुत्वाथ कुक्कुटरुतं प्रतिबोध्यालिङ्गितवती माम् ॥ ७३ ॥ धोरणिरलकालीनां तस्याः प्रियनिर्वृतिं चकारादौ । तदनु विलोलनमुच्चैस्तदनु कथा तदनु रतिविलासः ॥ ७४ ॥