पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला तैलङ्ग्यामनुरक्तस्त्वरितस्तन्वीविलोचनेषु युवा । तां निन्दतिस्म विहसन्विहसन्ती सा तमालिलिङ्ग भृशम् ।। ५१॥ तोषपरिफुल्लनयना पुलकितकुचमण्डला बभूव वधूः । यात्रायै गुरुलोके गच्छति गृहरक्षणे निवेश्यैनाम् ।। ५२ ॥ तौर्यत्रिकावलोके बलभीवातायनान्तस्था । सतनुमतनुं विदधतीं ह्यतनुं सतनुं ततान सा सुतनुः ।। ५३ ॥ तन्निजित्वरकण्ठी कण्ठीरवमध्यमा रामा । रामारामविहारे हारेण मनो न कस्य संहरति ।। ५४ ।। दलितकमलावलीनां परिमलमनिलाहृतं समाध्राय । शीतातुरा तु तरुणी सविधे भर्तुर्निशश्वास ।। ५५ ।। दाहहताखिलगात्री त्रीनपि दिवसान्कथं जीवेत् । वेतण्डतुण्डसेवां वारं वारं कुरुध्वमविवादा ।। ५६ ।। दिवसे दिवसे पीनं कुचयुगमानीलवदनमेणाक्ष्याः । आलोक्य तुष्यति पतिः कर्णाभ्यर्णावतीर्णपलितश्रीः ।। ५७ ।। दीप्ते दीप्तैः किरणैश्चण्डमरीचेर्जगति सखि चित्रम् । पाथः प्रयाति हित्वा वापीशैवालवल्लरी ललिता ॥ ५८ ॥ दुःसहतरं वदन्ती सखीजने निजविरहजं दुःखम् । श्रुत्वा प्रियस्य शब्दं द्वारि कृशाङ्गी समुदतिष्ठत् ॥ ५९ ॥ दूरतरदेशगमनोयुक्तं दयितं जगाद हरिणाक्षी । सायं यास्यति सदनं श्रुत्वेति स संनिवृत्तोऽभूत् ।। ६०॥ देवरकरकमलेरितशृङ्गच्युतसलिलधारया सेकः । उद्धतपुलकविनिह्रुवसाहाय्यं व्यतनुतारविन्दाक्ष्याः ॥ ६१ ॥ दैवमुपालभमाना जिगमिषति प्रियतमे गुरुजनोक्त्या । धृतसितवसना वसने यावकमभिपातयामास ॥ ६२ ॥