पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

fo काव्यमाला। शिरः समालोक्य शशाङ्कमौलेरावेष्टितं भीममुखैर्भुजंगैः । बिभेति पूर्वं मरुतामधीशो विचिन्त्य किंचिद्विजहाति भीतिम् ॥७८॥ सर्पदर्शनेन भयम्, चन्द्रसरणेन च भयापगमः ॥ त्वं मुग्धे न तु मन्दिरं पितुरुपानीतासि भर्तुर्गृहा- त्तत्काव्यं परिपूजयैनमपरैः किं तैर्ग्रहैः पूजितैः । एकोऽसावपराङ्मुखः फलति नैवेच्छानुकूलैः फलै- रित्येवं कथिते सखीभिरभवन्मन्दाक्षमन्दा वधूः ॥ ७९ ॥ संमुखे शुक्रे भर्तुर्गृहे गमनं न संभवति । व्यभिचारः सुलभश्चान्न ॥ षण्मुखसेव्यस्य विभोः सर्वाङ्गेऽलंकृतित्वमापन्नाः । पन्नगपतयः सर्वे वीक्षन्ते गणपतिं भीताः॥ ८० ॥ स्कन्दवाहनमयूरदर्शनभीताः शुण्डादण्डप्रवेशाय ॥ विच्छायतां गच्छति पश्य मुग्धे मन्ये त्वदास्येन जितो मृगाङ्कः । हृदि स्थितापीति निगद्यमाना कान्तेन कान्ता पतति स्म चित्रम् ॥८॥ रजन्या गतप्रायत्वात् ।। अन्योन्यं भुजगवराः शंकरसर्वाङ्गभूषणीभूताः । पश्यन्तो वदनानि प्रायः कम्पं भजन्ति को हेतुः ॥ ८२ ॥ नीलं कण्ठं विलोक्य केनायं दंशापराधः कृत इति ।। योऽयं भाति पयोधरस्तदुपरीत्याख्याय ऋज्वाशये बाले बाहुमुदस्य किं प्रियतमस्येन्दोः कला दश्यते । दुर्लक्ष्याः सखि दर्शिताः कति न वा वकेन्दुलेखास्त्वये- त्यालीजल्पितविस्मिता क्षणमथो सान्तःस्मितान्तर्हिता ।। ८३॥ नखाङ्कितं पयोधरमयं पश्यतीति । संगत्य नेत्रसलिलैस्तव विप्रयोगे हारस्थितानि हृदयं हरिणायताक्ष्याः ।