पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। तव सन्ति । पार्वत्यां तव मातरि हतायां तास्वेव मातृस्नेहं बधान विषादं मा कृथा इति भावः । अन्यच्च हे भव शिव, त्वं शरीरार्धलब्ध्या सकलः समग्रो भव । पार्वत्या भवच्छरीरार्धं हृतमस्ति, अधुना तन्नाशात्पुनरपि भवतः संपूर्णशरीरलाभः स्यात् । अद्याहं जिह्यां दुष्टाशयां कालीं हन्मि । इयं कुटि- ला काली च, त्वं पुनः सरलो गौरश्चेति न युवयोर्योगः साधीयान् , अतो धातयाम्येतामिति भावः ॥ गाहस्व व्योममार्गं गतमहिषभयैर्ब्रध्न विश्रब्धमश्वैः शृङ्गाभ्यां विश्वकर्मन्घटयसि न नवं शार्ङ्गिणः शार्ङ्गमन्यत् । ऐभी त्वङ्निष्ठुरेयं बिभृहि मृदुमिमामीश्वरेत्यात्तहासा गौरी वोऽव्यात्क्षतारिः स्वचरणगरिमग्रस्तगीर्वाणगर्वा ॥२९॥ क्षतारिर्नाशितशत्रुः, स्वचरणगरिमग्रस्तगीर्वाणगर्वा स्वपादगौरवनाशितदे- वाहंकारा । यत्कर्मं देवैः शस्त्रास्त्रशक्तिमद्भिर्न कृतं तद्देव्या स्वचरणव्यापार- मात्रेणैव कृतमिति भावः । अथ च इत्यात्तहासा इत्यमुना प्रकारेण कृतपरि- हासा गौरी वोऽव्यात् । इतीति किम् । हे ब्रध्न सूर्य, त्वं गतमहिषभयैर-- श्वैर्विश्रब्धं यथा स्यात्तथा व्योममार्गमाकाशपथं गाहस्व । हे विश्वकर्मन् देव- शिल्पिन् , एताभ्यां महिषस्य शृङ्गाम्यां शार्ङ्गिणो विष्णोर्नवमन्यच्छाङ्गं धनुर्न घटयसि । किमनेन पुराणधनुषेति काकुः । हे ईश्वर, इयमैमी त्वग्गजचर्म निष्ठुरा कठोरा इमां अर्थान्माहिषी त्वचं बिभृहि धारय । क्षिप्तो बाणः कृतस्ते त्रिकविनतिततो निर्वलिमध्यदेशः प्रह्लादो नूपुरस्य क्षतरिपुशिरसः पादपातैर्दिशोऽगात् । सङ्ग्रामे सं1नताङ्गि व्यथयसि महिषं नैकमन्यानपि त्वं ये 2युध्यन्तेऽत्र नैवेत्यक्तु पतिपरीहासहृष्टा3 शिवा कः॥३०॥ इति पतिपरीहासहृष्टा शिवा वः पातु । इसीति किम् । हे संनताङ्गि, त्वं सङ्ग्रामे एकं महिषमेव व्यथयसीति न, अन्यानपि येऽत्र न युध्यन्ते तानपि व्यथयसि । कथम् । बाणः शरः क्षिप्तः कृतः, पक्षे बाणोऽसुरविशेषः क्षिप्तो १. 'संतता वो'. २. 'विद्यन्ते'. ३. 'तुष्टा भवानी'.