पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चण्डीशतकम् । गलहस्तितः । ते त्रिकविनतिततो मध्यदेशो निर्वलिखिवलिरहितः कृतः। बाणक्षेपणसमये हि शरीरस्योर्ध्वोत्तम्भनान्मध्यदेशो निर्वलिर्जात इति भावः । पझे बलिर्दानवविशेषः । क्षतरिमुशिरसो नूपुरस्य पादपाते प्रह्लादो ध्वनिर्दि- शोऽगात् । नूपुरशब्दो दिगन्तगामी जात इत्यर्थः । पक्षे प्रह्लादोऽसुरविशेषः । अत्र युद्धे बाणबलिप्रह्लादा न सन्ति, भवती तानपि व्यथयतीति परीहासः ॥ मेरौ मे रौद्रशृङ्गक्षतवपुषि रुषो नैव नीता नदीनां भर्तारो रिक्ततां यत्तदपि हितमभून्निःसपत्नोऽत्र कोऽपि । एतन्नो मृष्यते यन्महिष कलुषिता खर्धुनी मूर्ध्नि मान्या शंभोभिन्द्याद्धसन्ती पतिमिति शमितारातिरीतीरुमा वः ॥३॥ शमितारातिः पार्वती पतिमिति हसन्ती वः ईतीरुपद्वान्भिन्धात् । इती- ति किम् । हे महिष, मेरौ रौद्रश्चङ्गक्षतवपुषि सति मे रुषो नैव । त्वया शृङ्गाभ्यां मेरुपर्वते क्षते मम क्रोधो नास्ति । अन्यच्च यन्नदीनां भर्तारः समुद्रा रिक्ततां नीतास्तदपि हितमभूत् । तत्रापि मे रुषो नैव । अत्र कोऽपि निःस- पत्नो जातः । समुद्रो महादेवश्च गङ्गापतिः । समुद्ररिक्तीकरणे तु महादेवस्य निःसपत्नं गङ्गापतित्वं जातमिति भावः । एतत्तु नो मृष्यते इदं न क्षम्यते यच्छंभोमूर्ध्नि मान्या अर्थाच्छंभोरेव स्वर्धुनी गङ्गा कलुषिता कलुषीकृता । सेयं परपुरुषसङ्गात्कलुषा जातेति भावः ॥ सद्यः साधितसाध्यमुद्धृतवती शूलं शिवा पातु वः पादप्रान्तविषक्त एव महिषाकारे सुरद्वेषिणि । दिष्ट्या देव वृषध्वजो यदि भवानेषापि नः स्वामिनी संजाता महिषध्वजेति जयया केलौ कृतेऽर्धस्मिता ।। ३२ ।। पादप्रान्ते महिषाकारे सुरद्वेषिणि विषक्ते एव साधितसाध्यं कृतकार्य शूल- मुद्धृतवती, अथ च जयया इति केलौ परीहासे कृते सति अर्धस्मिता शिवा वः पातु । इतीति किम् । हे देव, यदि भवान्वृषध्वजः, एषापि नः स्वामिनी पार्वती महिषध्वजा दिष्ट्या संजाता । साधु युवयोर्योगो यद्वावपि पशुध्वजौ ।। त्वं वृषारूढः, इयं पुनर्महिषारूढेति हास्यम् ॥ १. 'प्रोतप्रान्त- २चतु