पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भल्लटशतकम् । १७९


दूरे कस्यचिदेव कोऽप्यकृतधीर्नैवास्य वेत्त्यन्तरं
मानी कोऽपि न याचते मृगयते कोऽप्यल्पमूल्याशयः ।
इत्थं प्रार्थितदानदुर्व्यसनिनो नौदार्यरेखोज्ज्वला
जाता नैपुणदुस्तरेषु निकषस्थानेषु चिन्तामणिः ॥ ५५ ॥

परार्थे यः पीडामनुभवति भङ्गेऽपि मधुरो
यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः ।
न संप्राप्तो वृद्धिं स यदि भृशमक्षेत्रपतितः
किमिक्षोर्दोषोऽयं न पुनरगुणाया मरुभुवः ॥ ५६ ॥

आम्राः किं फलभारनम्रशिरसो रम्याः किमूष्मच्छिदः
सच्छायाः कदलीद्रुमाः सुरभयः किं पुष्पिताश्चम्पकाः ।
एतास्ता निरवग्रहोग्रकरमोल्लीढार्धरूढाः पुनः
शम्यो भ्राम्यसि मूढ निर्मरुति किं मिथ्यैव मर्तुं मरौ ॥ ५७ ॥

आ जन्मनः कुशलमण्यपि रे कुजन्म-
न्पांसो त्वया यदि कृतं वद तत्त्वमेव ।
उत्थापितोऽस्यनलसारथिना यदर्थं
तुष्टेन तत्कुरु कलङ्कय विश्वमेतत् ॥ ५८ ॥

निःसाराः सुतरां लघुप्रकृतयो योग्या न कार्ये क्वचि-
च्छुष्यन्तोऽद्य जरत्तृणाद्यवयवाः प्राप्ताः स्वतन्त्रेण ये ।
अन्तःसारपराङ्मुखेण धिगहो ते मारुतेनामुना
यश्यात्यन्तचलेन सद्म महतामाकाशमारोपिताः ॥ ५९ ॥

१. 'अल्पाशयः' इति सुभा०. २. 'निकषा स्थानेषु' इति सुभा०। ३. अयं

श्लोकः शार्ङ्गधरपद्धतौ इन्दुराजनाम्ना, सुभाषितावलौ च यशसो नाम्ना समुद्धृतः. ४. 'अवरूढाः' इति 'सुभा०. ५. 'एतत्' इति सुभा०. ६. 'दुष्टेन इति सुभा०. ७. 'वर्त्म' इति सुभा०।