पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

१८० काव्यमाला ।


ये जात्या लघवः सदैव गणनां याता न ये कुत्रचि-
त्पभ्द्यामेव विमर्दिताः प्रतिदिनं भूमौ निलीनाश्चिरम् ।
उत्क्षिप्ताश्चपलाशयेन मरुता पश्यान्तरिक्षेऽधुना
तुङ्गानामुपरि स्थितिं क्षितिभृतां कुर्वन्त्यमी पांसवः ॥ ६० ॥

हे दन्दशूक तदयोग्यमपीश्वरस्त्वां
वात्सल्यतो नयति नूपुरधाम सत्यम् ।
आवर्जितालिकुलझंकृतिमूर्च्छितानि
किं शिञ्जितानि भवता क्षमतेऽत्र कर्तुम् ॥ ६१ ॥

कल्लोलवेल्लितदृषत्परुषप्रहारै
रत्नान्यमूनि मकरालय मा वमंस्थाः ।
किं कौस्तुभेन विहितो भवतो न नाम
याच्ञाप्रसारितकरः पुरुषोत्तमोऽपि ॥ ६२ ॥

मौलौ सन्मणयो गृहं गिरिगुहा त्यागः किलात्मत्वचो
निर्यत्नोपनतैः स्ववृत्तिरनिलैरेकत्र चर्येदृशी ।
अन्यत्रानृजु वर्त्म वाग्द्विरसना दृष्टौ विषं दृश्यते
यादृक्तामनुदीपको ज्वलति नो भोगिन्सखे किं न्विदम् ॥ ६३ ॥

भूयांस्यस्य मुखानि नाम विदितैवास्ते महाप्राणता
कद्र्वाः सत्प्रसवोऽपि यत्र कुपिते चिन्त्यं यथेदं जगत् ।

१. 'सखे' इति सुभा०. २. 'रे' इति सुभा०. ३. 'वाल्लभ्यतो' इति सुभा०,

४. 'सत्कृति-' इति सुभा०. ५. भवतः क्षम एष' इति सुभा०. ६. अयं श्लोकः सुभाषितावलौ भागवतत्रिविक्रमनाम्ना समुद्धृतः तत्र पूर्वार्धे प्रथमद्वितीयपादयो- र्व्यत्ययः.७. 'च' इति सुभा०. ८. 'किं' इति सुभा०. ९. 'महासत्वता' इति सुभा०.१०. 'प्राक्प्रसवोऽयमत्र' इति सुभा०.