( 90 ) शकुन्तला-न माननीयेप्वात्मानमपराधयिष्ये । (इत्युत्थाय गन्तुमिच्छति ।) राजा-सुन्दरि, अनिर्वाणो दिवसः । इयं च ते शरीरावस्था । उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणम् । कथमातपे गमिष्यसि परिबाधापेलवैरङ्गैः ॥ १९ ॥ ( इति बलादेनां निवर्तयति ।) शकुन्तला–पौरव, रक्ष विनयम् । मदनसंतप्तापि न खल्वात्मनः प्रभवामि । राजा-भीरू, अलं गुरुजनभयेन । दृष्ट्वा ते विदितधर्मा तत्र- - भवान्नात्र दोषं ग्रहीप्यति कुलपतिः । यतः, गान्धर्वेण विवाहेन बह्वयो राजर्षिकन्यकाः । श्रूयन्ते परिणीतास्ताः पितृभिश्चाभिनन्दिताः ॥ २० ॥ शकुन्तला-मुञ्च तावन्माम् । भूयोपि सखीजनमनुमानयिष्ये । राजा-भवतु । मोक्ष्यामि । शकुन्तला-कदा ? राजा- अपरिक्षतकोमलस्य याव- त्कुसुमस्येव नवस्य षट्पदेन । अधरस्य पिपासता मया ते सदयं सुन्दरि गृह्यते रसोऽस्य ॥ २१ ॥ ( इति मुखमस्याः समुन्नमयितुमिच्छति। शकुन्तला परिहरति नाटयेन ।) -शाकुन्तले तृतीयोऽङ्कः।
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/९६
दिखावट