सामग्री पर जाएँ

पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 89 ) इदमनन्यपरायणमन्यथा हृदयसंनिहिते हृदयं मम । यदि समर्थयसे मदिरेक्षणे मदनबाणहतोऽस्मि हतः पुनः ॥ १६ ॥ अनसूया-वयस्य, बहुवल्लभा राजानः श्रूयन्ते । यथा नौं प्रियसखी बन्धुजनशोचनीया न भवति, तथा निर्वतय । राजा-भद्रे, किंबहुना ? परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे । समुद्ररशना चोर्वी सखी च युवयोरियम् ॥ १७ ॥ उभे-निर्वृते स्वः । प्रियंवदा-(सदृष्टिक्षेपम् ) अनसूये, यथैष इतो दत्तदृष्टिरुत्सुको मृगपोतको मातरमन्विष्यति । एहि । संयोजयाव एनम् । ( इत्युभे प्रस्थिते ।) , शकुन्तला–हला, अशरणास्मि । अन्यतरा युवयोर्गच्छतु । उभे—पृथिव्या यः शरणं स तव समीपे वर्तते । (इति निष्क्रान्ते ।) शकुन्तला—कथं गते एव । राजा-अलमावेगेन । नन्वयमाराधयिता जनस्तव समीपे वर्तते । किं शीतलैः क्लमविनादिभिरार्द्रवातान् संचारयामि नलिनीदलतालवृन्तैः । अङ्के निधाय करभोरु यथासुखं ते संवाहयामि चरणावुत पद्मताम्रौ ॥ १८ ॥