पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

संस्कृतप्रस्तावः। ( The Late Mulchandra Telliwalla ) v श्रीमदार्यावर्त आदिकविना शब्दार्थरसिकेन ब्रह्मणा भगवतो नारायणस्य सृष्टयादौ गुणगानाय वेदाः प्रादुर्भाविताः । तथैवादिकविना वाल्मीकिना भगवतो रघुकुलरत्नस्य गुणगानं श्रीरामायणे कृतम् । तथैव श्रीमन्महाभारते यदुकुलचूडामणेर्गुणगानमादिकविना व्यासेनापि कृतम् । एते त्रयोप्यादिकवित्वेन प्रसिद्धाः । तेषां काव्यस्यालौकिकविषयत्वात् तेषां ख्यातिः ऋषित्वेन जाता। येषां काव्यस्य विषयो लौकिकः, ते कवित्वेन प्रसिद्धा जाताः । एतेषु कविकुलगुरोः कालिदासस्य नाम नैवाप्रसिद्धम् । एतद्देशीयैः पाश्चात्यैः पण्डितैश्चास्य कविमुकुटमणेः प्रशंसा मुक्तकण्ठैः कृता दृश्यते । तत्त्वज्ञानिभिः श्रीवल्लभाचार्यैरपि · स्त्रीहृदयज्ञ' इत्येवमस्य कवेरुपन्यासो निजग्रन्थेषु कृतो दृश्यते । पाश्चात्यानामेतद्देशीयानां प्रशस्तयोस्मिन्नेव संग्रहे संग्रहीताः । महाकवेः कालिदासस्य परिचयो भारतवर्षीयैस्त्ववश्यमेव कर्तव्य इत्यत्र नैव संशयः । लौकिकव्यापृतिषु सर्वथा निमग्नैरस्य परिचयः कथं कर्तव्य इति प्रश्नः । कवि- कालिदासस्य वाङ्मयान् मणिरूपान् विभागान् संगृह्यास्मन्मित्रवरैः ' पाध्ये' इति नामधेयैरयं ग्रन्थः प्रकाशितः । एतेनातिव्यापृतानामपि कविकालिदासस्य स्वरूपपरिचयायातीव सौकर्यं भविष्यति । कविकालिदासस्य साङ्गोपाङ्गमध्ययनं यैः कर्तुमशक्यम् , तेप्यस्यावगाहनेन तत्स्वरूपे निष्ठावन्तो भविष्यन्तीति । मूळचन्द्र तेलीवाला। ..