पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/४४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 201 ) पात्रविशेषन्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः । जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदस्य ॥ १.६ ॥ अर्थx सप्रतिबन्धं प्रभुरधिगन्तुं सहायवानेव । दृश्यं तमसि न पश्यति दीपेन विना सचक्षुरपि ॥ १. ९ ॥ लब्धास्पदोऽस्मीति विवादभीरो- स्तितिक्षमाणस्य परेण निन्दाम् । यस्यागमः केवलजीविकायै तं ज्ञानपण्यं वणिजं वदन्ति ॥ १. १७ ॥ प्रायः समानविद्याः परस्परयश:पुरोभागाः ॥ १. २० ॥ मन्दोऽप्यमन्दतामति संसर्गेण विपश्चितः । पङ्कच्छिदः फलस्येव निकषेणाविलं पयः ॥ २. ७ ॥ उपदेशं विदुः शुद्धं सन्तस्तमुपदेशिनः । श्यामायते न युष्मासु यः काञ्चनमिवाग्निषु ।। २. ९॥ स्थाने प्राणाः कामिनां दूत्यधीनाः ॥ ३. १४ ॥ न हि बुद्धिगुणेनैव सुहृदामर्थदर्शनम् । कार्यसिद्धिपथः सूक्ष्मः स्नेहेनाप्युपलक्ष्यते ॥ ४. ६ ॥ प्रतिपक्षणापि पतिं सेवन्ते भर्तृवत्सलाः साध्व्यः । अन्यसरितां शतानि हि समुद्रगाः प्रापयन्त्यब्धिम् ॥ ५. १९ ॥