पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/४२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 174 ) शिवपार्वतीसंवादः Dialogue between Parvati (who was Practising austerities to secure God Shiva as her husband ) and God Shiva who in the disguise of a Brahman had been to her to dissuade her from that resolve. तमातिथेयी बहुमानपूर्वया सपर्यया प्रत्युदियाय पार्वती । भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः ३१ विधिप्रयुक्तां परिगृह्य सत्क्रियां परिश्रमं नाम विनीय च क्षणम् । उमां स पश्यन्नृजुनैव चक्षुषा प्रचक्रमे वक्तुमनुज्झितक्रमः ॥ ३२ ॥ अपि क्रियार्थ सुलभं समित्कुशं जलान्यपि स्नानविधिक्षमाणि ते । अपि स्वशक्त्या तपसि प्रवर्तसे शरीरमाद्यं खलु धर्मसाधनम् ॥३३॥ अपि त्वदावर्जितवारिसंभृतं प्रवालमासामनुबन्धि वीरुधाम् । चिरोज्झितालक्तकपाटलेन ते तुलां यदारोहति दन्तवाससा ॥३४॥ अपि प्रसन्नं हरिणेषु ते मनः करस्थदर्भप्रणयापहारिषु । य उत्पलाक्षि प्रचलैर्विलोचनस्तवाक्षिसादृश्यमिव प्रयुञ्जते ॥ ३५ ॥ यदुच्यते पार्वति पापवृत्तये न रूपमित्यव्यभिचारि तद्वचः । तथाहि ते शीलमुदारदर्शने तपस्विनामप्युपदेशतां गतम् ॥ ३६ ॥ विकीर्णसप्तर्षिबलिप्रहासिभिस्तथा न गाङ्गः सलिलैर्दिवश्युतैः । यथा त्वदीयैश्चरितैरनाविलर्महीधर: पावित एष सान्वयः ॥ ३७ ।। अनेन धर्मः सविशेषमद्य मे त्रिवर्गसारः प्रतिभाति भाविनि । त्वया मनोनिर्विषयार्थकामया यदेक एव प्रतिगृह्य सेव्यते ॥ ३८ ॥