पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/४१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 173 ) , (मालविका ससाध्वसा तिष्ठति ।) राजा- विसृज सुन्दरि संगमसाध्वसं तव चिरात्प्रभृति प्रणयोन्मुखे । परिगृहाण गते सहकारतां त्वमतिमुक्तलताचरितं मयि ॥ १३ ॥ मालविका--देव्या भयेनात्मनोऽपि प्रियं कर्तुं न पारयामि राजा-अयि, न भेतव्यम् । मालविका-( सोपालम्भम् । ) यो न बिभेति, म मया भट्टिनी- दर्शने दृष्टसामर्थ्यो भर्ता। राजा- दाक्षिण्यं नाम बिम्बोष्ठि बैम्बिकांना कुलव्रतम् । तन्मे दीर्घाक्षि ये प्राणास्ते त्वदाशानिबन्धनाः ॥ १४ ॥ तदनुगृह्यतां चिरानुरक्तोऽयं जनः । ( इति संश्लेषमुपजनयति ।) . (मालविका परिहरति ।) राजा-(आत्मगतम् ।) रमणीयः खलु नवाङ्गनाना मदनविषयावतारः । तथा हि। हस्तं कम्पयते रुणद्धि रशनाव्यापारलोलाङ्गुलीः स्वौ हस्तौ नयति स्तनावरणतामालिङ्गन्यमाना बलात् । तुं पक्ष्मलनेत्रमुन्नमयतः साचीकरोत्याननं व्याजेनाप्यभिलाषपूरणसुखं निर्वर्तयत्येव मे ॥ १५ ॥ मालविकाग्निमित्रे चतुर्थोऽङ्कः ।