पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

" ( 103 ) शकुन्तला-( अपवार्य ) इदमवस्थान्तरं गते तादृशेऽनुरागे किं वा स्मारितेन ? आत्मेदानी मे शोचनीय इति व्यवसितमेतत् । आर्यपुत्र, संशयित इदानीं नैष समुदाचारः । पौरव, न युक्तं नाम ते तथा पुराश्रमपदे स्वाभावोत्तानहृदयमिमं जनं समयपूर्वं प्रतार्य सांप्रतमीदृशैरक्षरैः प्रत्याख्यातुम् । राजा--(कर्णौ पिधाय ) शान्तं पापम् । व्यपदेशमाविलयितुं किमीहसे जनमिमं च पातयितुम् । कुलंकषेव सिन्धुः प्रसन्नमम्भस्तटतरूं च ॥ २१ ॥ शकुन्तला—भवतु । यदि परमार्थतः परपरिग्रहशाङ्किना त्वयैवं वक्तुं प्रवृत्तं तदभिज्ञानेनामुना तवाशङ्कामपनेष्यामि । राजा-उदार: कल्पः । शकुन्तला—( मुद्रास्थानं परामृश्य ) हा धिक् ! हा धिक् ! अङ्गुलीयकशून्या मेऽङ्गुलिः। गौतमी--नूनं ते शक्रावताराभ्यन्तरे शचीतीर्थसलिलं वन्द- मानायाः प्रभ्रष्टमङ्गुलीयकम् । राजा-(सस्मितम् ) इदं तत्प्रत्युत्पन्नमति स्त्रैणमिति यदुच्यते । शकुन्तला -अत्र तावद्विधिना दर्शितं प्रभुत्वम् । अपरं ते कथयिष्यामि । राजा-श्रोतव्यमिदानी संवृत्तम् । शकुन्तला-नन्वेकस्मिन्दिवसे नवमालिकामण्डपे नलिनीपत्रभाजनगतनुदकं तव हस्ते संनिहितमासीत् । राजा-शृणुमस्तावत् ।