पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 61 ) वापीजलानां मणिमेखलानां शशाङ्कभासां प्रमदाजनानाम् । घृतद्रुमाणां कुसुमान्वितानां वाति सौभाग्यमयं वसन्तः ॥ ३ ॥ कर्णेषु योग्यं नवकर्णिकारं चलेषु नीलेष्वलकेष्वशोकम् । पुष्पं च फुल्लं नवमल्लिकायाः प्रयाति कान्तिं प्रमदाजनानाम् ॥ ५ ॥ ताम्रप्रवालस्तबकावनम्रा- श्चूतद्रुमाः पुष्पितचारुशाखाः । कुर्वन्ति कामं पवनावधूताः पर्युत्सुकं मानसमङ्गनानाम् ॥ १५ ॥ आ मूलतो विद्रुमरागताम्रं सपल्लवाः पुष्पचयं दधानाः । कुर्वन्त्यशोका हृदयं सशोकं निरीक्ष्यमाणा नवयौवनानाम् ॥ १६ ॥ मत्तद्विरेफपरिचुम्बितचारुपुष्पा मन्दानिलाकुलितनम्रमृदुप्रवालाः । कुर्वन्ति कामिमनसां सहसोत्सुकत्वं चूताभिरामकलिकाः समवेक्ष्यमाणाः ॥ १७ ॥ आदीप्तवह्निसदृशर्मरुतावधूतैः सर्वत्र किंशुकवनैः कुसुमावनम्रैः सद्यो वसन्तसमये हि समाचितेयं रक्तांशुका नववधूरिव भाति भूमिः ॥ १९ ॥