पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

5b) जलधरविनतानामाश्रयोऽमाकमुच्चै- रयमिति जलसेंकैस्तोयदास्तोयनम्राः । अतिशयपरुषाभिर्ग्रीष्मिवः शिखामिः समुपजनिततापं ह्लादयन्तीव विन्ध्यम् ॥ २७ ॥ बहुगुणरमणीयः कामिनीचित्तहारी तरुविटपलतानां बान्धवो निर्विकारः । जलदसमय एष प्राणिनां प्राणभूतो दिशतु तव हितानि प्रायशो वाञ्छितानि ॥ २८ ॥ ---ऋतुसंहारे प्रावृड्वर्णनम् । शरद्वर्णनम् । Description of Autumn. काशांशुका विकचपद्ममनोज्ञवक्रा सोन्मादहंसरवनूपुरनादरम्या। आपक्वशालिरुचिरा तनुगात्रयष्टिः प्राप्ता शरन्नववधूरिव रूपरम्या ॥ १ ॥ काशैर्मही शिशिरदीधितिना रजन्यो हंसैर्जलानि सरितां कुमुदैः सरांसि सप्तच्छदै: कुसुमभारनतैर्वनान्ताः शुक्लीकृतान्युपवनानि च मालतीभिः ॥ २ ॥ व्योम क्वचिद्रजतशङ्खमृणालगौरै- स्त्यक्ताम्बुभिर्लघुतया शतशः प्रयातैः । संलक्ष्यते पवनवेगचलैः पयोदै राजेव चामरवरैरुपवीज्यमानः ॥ ४ ॥