पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 53 ) पाहवर्णनम् । Description of the Rainy season. ससीकराम्भोधरमत्तकुञ्जर- स्तडित्पताकोऽशनिशब्दमर्दलः । समागतो राजवदुद्धतद्युति- र्घनागमः कामिजनप्रियः प्रिये ॥ १ ॥ तृषाकुलैश्चातकपक्षिणां कुलैः प्रयाचितास्तोयभरावलम्बिनः । प्रयान्ति मन्दं बहुधारवर्षिणो बलाहकाः श्रोत्रमनोहरस्वनाः ॥ ३ ॥ बलाहकाश्चाशनिशब्दमर्दलाः सुरेन्द्रचापं दधतस्तडिद्गुणम् । सुतीक्ष्णधारापतनोग्रसायकै- स्तुदन्ति चेतः प्रसभं प्रवासिनाम् ॥ ४ ॥ प्रभिन्नवैदूर्यनिभैस्तृणाकुरैः समाचिता प्रोत्थितकन्दलीदलैः । विभाति शुक्लेतररत्नभूषिता वराङ्गनेव क्षितिरिन्द्रगोपकैः ॥ ५ ॥ सदा मनोज्ञं वनदुत्सवोत्सुकं विकीर्णविस्तीर्णकलापशोभितम् । ससंभ्रमालिङ्गनचुम्बनाकुलं प्रवृत्तनृत्यं कुलमद्य बर्हिणाम् ॥ ६ ॥