पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अपि च । अन्तर्हित शशिनि सैव कुमुद्बती मे दृष्टिं न नन्दयति संस्मरणीयशोभा । इष्टप्रवासजनितान्यबलाजनस्य दुःखानि नूनमतिमात्रसुदुःसहानि ॥ २ ॥ --शाकुन्तले चतुर्थोऽङ्कः। मेघवर्णनम् । Description of the Cloud and Poet's conception of converting it as a carrier of his message to his beloved. कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः । यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १ ॥ तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी नीत्वा मासान्कनकवलयभ्रंशरिक्तप्रकोष्ठः । आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २ ॥ तस्य स्थित्वा कथमपि पुरः कौतुकाधानहेतो- रन्तर्बाप्पश्चिरमनुचरो राजराजस्य दध्यौ । मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ ३ ॥ प्रत्यासन्ने नभसि दयितानीवितालम्बनार्थी जीमूतेन स्वकुशलमयीं हारयिष्यन्प्रवृत्तिम् ।