पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 39 ) Description of landscape on earth by King Dushyanta while descending from Heaven to earth through the celestial Car. राजा-सत्यम् । अतीत्य हरितो हरीश्च वर्तन्ते वाजिनः । तथा हि यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलतां यदर्धे विच्छिन्नं भवति कृतसंधानमिव तत् । प्रकृत्या यद्वक्रं तदपि समरेख नयनयो- र्न मे दूरे किंचित्क्षणमपि न पार्श्वे रथजवात् ॥९॥ -शाकुन्तले प्रथमोऽङ्कः। राजा-मातले, असुरसंप्रहारोत्सुकेन पूर्वेद्युर्दिवमधिरोहता न -लक्षितः स्वर्गमार्गः । कतरस्मिन्मरुतां पथि वर्तामहे ? मातलि:-- त्रिस्रोतसं वहति यो गगनप्रतिष्ठां ज्योतींषि वर्तयति च प्रविभक्तरश्मिः । तस्य द्वितीयहरिविक्रमनिस्तमस्कं वायोरिमं परिवहस्य वदन्ति मार्गम् ॥ ६ ॥ राजा-मातले, अतः खलु सबाह्यकरणो ममान्तरात्मा प्रसी- दति । ( रथाङ्गमवलोक्य ) मेघपदवीमवतीणौँ स्वः । मातलिः कथमवगम्यते ?