पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(205) कुमारसंभवः। रको हि दोषो गुणसंनिपाते निमजतीन्दोः किरणेष्विवाङ्कः ॥ १. ३ ॥ क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसां सतीव ॥ १. १२ ॥ अभ्यर्थनाभङ्गभयेन साधु र्माध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थे । १. ५२ ॥ विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ॥ १.५९ ॥ शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः ॥ २. ४० ॥ प्रयोजनापेक्षितया प्रभूणां प्रायश्चलं गौरवमाश्रितेषु ॥ ३. १ ॥ -अप्यप्रसिद्धं यशसे हि पुंसा- मनन्यसाधारणमेव कर्म ॥ ३. १९ ॥ प्रायेण सामग्र्यविधौ गुणानां पराङमुखी विश्वसृजः प्रवृत्तिः ॥ ३. २८ ।। आत्मेश्वराणां न हि जातु विघ्नाः समाधिभङ्गप्रभवो भवन्ति ॥ ३. ४० ॥ न हीश्वरव्याहृतयः कदाचि- त्पुष्णन्ति लोके विपरीतमर्थम् ॥ ३.६३ ॥ स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिवोपजायतो ।। ४. २६ ॥