पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 199 ) यदेवोपनतं दुःखात्सुखं तद्रसवत्तरम् । निर्वाणाय तरुच्छाया तप्तस्य हि विशेषतः ॥ ३. २१ ॥ स्वार्थात्सतां गुरुता प्रणयिक्रियैव विभावितैकदेशेन स्तेयं यदभियुज्यते ॥ ४. १७ ॥

मालविकामिमित्रम् ।

नन्वाकृतिविशेषेप्वादरः पदं करोति । कामं खलु सर्वस्य कुलविद्या बहुमता। पत्तने सत्ति ग्रामे रत्नपरीक्षा । अन्योन्यकलृहितयोर्मत्तहस्तिनोरेकतरस्मिन्ननिर्जिते कुत उपशमः । विनेतुरद्रव्यपरिग्रहोऽपि बुद्धिलाघवं प्रकाशयति । अपरिनिष्ठितस्योपदेशस्यान्याय्यं प्रदर्शनम् । सर्वज्ञस्याप्येकाकिनो निर्णयाभ्युपगमो दोषाय । सुशिक्षितोऽपि न सर्व उपदेशदर्शने निपुणो भवति । उपस्थितं नयनमधु संनिहितमक्षिकं च । अहो सर्वास्ववस्थास्वनवद्यता रूपस्य । अहो सर्वास्ववस्थासु चारुता शोभान्तरं पुष्यति । मया नाम शुष्कघनगर्जितेऽन्तरिक्षे जलपानमिच्छता चातकायितम् । पण्डितपरितोषप्रत्यया ननु मूढा जातिः । साधु । त्वं दरिद्र आतुर इम वैद्यनोपनीयमानमौषधमिच्छसि उचितवेलातिक्रमे चिकित्सका दोषमुदाहरन्ति ।