सामग्री पर जाएँ

पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 197 ) को नामोष्णोदकेन नवमालिकां सिञ्चति । दिष्टया धूमावरुद्धदृष्टेरपि यजमानस्य पावक एवाहुतिः पतिता । न खलु धीमतां कश्चिदविषयो नाम । अतिस्नेहः पापशङ्की । अविश्रमोऽयं लोकतन्त्राधिकारः । सर्वः प्रार्थितमर्थमधिगम्य सुखी संपद्यते जन्तुः । अनिर्वर्णनीयं परकलत्रम् । प्रत्युत्पन्नमति स्त्रैणम् । आत्मकृतं चापलमप्रतिहतं दहति । नन्दवसरोपसर्पणीया राजानः । एष नामानुगृहीतः यः शूलादवतार्य हस्तिस्कन्धे प्रतिष्ठापितः । उत्सवप्रियाः खलु मानुषाः। अहो सर्वास्ववस्थासु रमणीयत्वमाकृतिविशेषाणाम् । रन्ध्रोपनिपातिनोऽनर्थाः । भवितव्यता खलु बलवती । न कदापि सत्पुरुषाः शोकपात्रात्मानो भवन्ति । ननु प्रवातेऽपि निष्कम्पा गिरयः । कः पतिदेवतामन्यः परामष्टुमुत्सहते । न खलु मातापितरौ भर्तृवियोगदुःखितां दुहितरं द्रष्टुं पारयतः । अवश्यंभाविनोऽचिन्तनीयः समागमो भवति । एषोऽत्रभवान्नदीमतिक्रम्य मृगतृष्णिकायां संक्रान्तः । सति खलु दीपे व्यवधानदोषेणैषोऽन्धकारमनुभवति । उत्सर्पिणी खलु महतां प्रार्थना । अन्याय्यः परदाराणां व्यवहारः ।