पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 191 ) तमश्रु नेत्रावरणं प्रमृज्य सीता विलापाद्विरता ववन्दे । तस्यै मुनिर्दोहदलिङ्गदर्शी दाश्वान्सुपुत्राशिषमित्युवाच ॥ ७१ ।। जाने विसृष्टां प्रणिधानतस्त्वां मिथ्यापवादक्षुभितेन भर्त्रा। तन्मा व्यथिष्ठा विषयान्तरस्थं प्राप्तासि वैदेहि पितुर्निकेतम्॥७२॥ उत्खातलोकत्रयकण्टकेऽपि सत्यप्रतिज्ञेऽप्यविकत्थनेऽपि । त्वां प्रत्यकस्मात्कलुषप्रवृत्तावस्त्येव मन्युर्भरताग्रजे मे॥ ७३ ॥ तवोरुकीर्तिः श्वशुर सखा मे सतां भवोच्छेदकरः पिता ते । धुरि स्थिता त्वं पतिदेवतानां किं तन्न येनासि ममानुकम्प्या ७४ तपस्विसंसर्गविनीतसत्त्वे तपोवने वीतभया वसास्मिन् । इतो भविष्यत्यनघप्रसूतेरपत्यसंस्कारमयो विधिस्ते ॥ ७९ ॥ अशून्यतीरां मुनिसंनिवेशैस्तमोपहन्त्रीं तमसां वगाह्य । तत्सैकतोत्सङ्गबलिक्रियाभिः संपत्स्यते ते मनसः प्रसादः ॥७६॥ पुष्पं फलं चार्तवमाहरन्त्यो बीजं च बालेयमकृष्टरोहि । विनोदयिष्यन्ति नवाभिषङ्गामुदारवाचो मुनिकन्यकास्त्वाम् ॥७७॥ पयोघटैराश्रमबालवृक्षान्संवर्धयन्ती स्वबलानुरूपैः ॥ असंशयं प्राक्तनयोपपत्तेः स्तनंधयप्रीतिमवाप्स्यसि त्वम् ॥ ७८ ॥ अनुग्रहप्रत्यभिनन्दिनीं तां वाल्मीकिरादाय दयार्द्रचेताः । सायं मृगाध्यासितवेदिपार्श्वं स्वमाश्रमं शान्तमृगं निनाय॥७९॥ तामर्पयामास च शोकदीनां तदागमप्रीतिषु तापसीषु । निर्विष्टसारां पितृभिर्हिमांशोरन्त्यां कलां दर्श इवौषधीषु ॥८०॥ ता इङ्गुदीस्नेहकृतप्रदीपमास्तीर्णमेध्याजिनतल्पमन्तः । तस्यै सपर्यानुपदं दिनान्ते निवासहेतोरुटजं वितेरुः ॥१॥