पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 188 ) तमवेक्ष्य रुरोद सा भृशं स्तनसंबाधमुरो जघान च । स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिवोपजायते ॥ २६ ॥ इति चैनमुवाच दुःखिताः सुहृदः पश्य वसन्त किं स्थितम् । तदिदं कणशो विकीर्यते पवनैर्भस्म कपोतकर्बुरम् ॥ २७ ॥ अयि संप्रति देहि दर्शनं स्मर पर्युत्सुक एष माधवः । दयितास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृजने ॥ २८ ॥ अमुना ननु पार्श्ववर्तिना जगदाज्ञां ससुरासुरं तव । बिसतन्तुगुणस्य कारितं धनुष: पेलवपुष्पपत्रिणः ॥ २९ ॥ गत एव न ते निवर्तते स सखा दीप इवानिलाहतः । अहमस्य दशेव पश्य मामविषह्यव्यसनेन धूमिताम् ॥ ३० ॥ विधिना कृतमर्धवैशसं ननु मां कामवधे विमुञ्चता । अनपायिनि संश्रयद्रुमे गजभग्ने पतनाय वल्लरी ॥ ३१ ॥ तदिदं क्रियतामनन्तरं भवता बन्धुजनप्रयोजनम् । विधुरां ज्वलनातिसर्जनान्ननु मां प्रापय पत्युरन्तिकम् ॥ ३२ ॥ शशिना सह याति कौमुदी सह मेधेन तडित्प्रलीयते । प्रमदाः पतिवर्त्म॑गा इति प्रतिपन्नं हि विचेतनैरपि ॥ ३३ ॥ अमुनैव कषायितस्तनी सुभगेन प्रियगात्रभस्मना । नवपल्लवसंस्तरे यथा रचयिष्यामि तनुं विभावसौ ॥ ३४ ॥ कुसुमास्तरणे सहायतां बहुशः सौम्य गतस्त्वमावयोः । कुरु संप्रति तावदाशु मे प्रणिपाताञ्जलियाचितश्चिताम् ॥ ३५ ॥ तदनु ज्वलनं मदर्पितं त्वरयेर्दक्षिणवातवीजनैः । विदितं खलु ते यथा स्मरः क्षणमप्युत्सहते न मां विना ॥३६॥ ole