अलिपतिरनेकशस्त्वया गुणकृत्ये धनुषो नियोजिता । विरुतैः करुणस्वनैरियं गुरुशोकामनुरोदितीव माम् ॥ १५ ॥ प्रतिपद्य मनोहरं वपुः पुनरप्यादिश तावदुत्थितः । रतिदूतिपदेषु कोकिलां मधुरालापनिसर्गपण्डिताम् ॥ १६ ॥ शिरसा प्रणिपत्य याचितान्युपगूढानि सवेपथूनि च । सुरतानि च तानि ते रहः स्मर संस्मृत्य न शान्तिरस्ति मे ॥१७॥ रचितं रतिपण्डित त्वया स्वयमङ्गेषु ममेदमार्तवम् । ध्रियते कुसुमप्रसाधनं तव तच्चारु वपुर्न दृश्यते ॥ १८ ॥ विबुधैरसि यस्य दारुणैरसमाप्ते परिकर्मणि स्मृतः । तमिमं कुरु दक्षिणेतरं चरणं निर्मितरागमेहि मे ॥ १९ ॥ अहमेत्य पतङ्गवर्त्मना पुनरङ्काश्रयणी भवामि ते । चतुरैः सुरकामिनजनैः प्रिय यावन्न विलोभ्यसे दिवि ॥ २० ॥ मदनेन विनाकृता रतिः क्षणमात्रं किल जीवितेति मे । वचनीयमिदं व्यवस्थितं रमण त्वामनुयामि यद्यपि ॥ २१ ॥ क्रियतां कथमन्त्यमण्डनं परलोकान्तरितस्य ते मया । सममेव गतोऽस्यतर्कितां गतिमङ्गेन च जीवितेन च ॥ २२ ॥ ऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिषप्णधन्वनः । मधुना सह सस्मितां कथां नयनोपान्तविलोकितं च यत् ॥२३॥ क्व नु ते हृदयंगमः सखा कुसुमायोजितकार्मुको मधुः । न खलूग्ररुषा पिनाकिना गमितः सोऽपि सुहृद्भतां गतिम् ॥२४॥ अथ तैः परिदेविताक्षरह्दये दिग्धशरैरिवाहतः । रतिमभ्युपपत्तुमातुरां मधुरात्मानमदर्शयत्पुरः ॥ २५ ॥ .
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१९२
दिखावट