पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 178 ) .. निवर्तयास्मादसदीप्सितान्मनः क्व तद्विधस्त्वं क्व च पुण्यलक्षणा । अपेक्ष्यते साधुजनेन वैदिकी श्मशानशूलस्य न यूपसत्क्रिया ॥ ७३ ।। इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानाधरलक्ष्यकोपया । विकुञ्चितभ्रूलतमाहिते तया विलोचने तिर्यगुपान्तलोहिते ॥ ७४ ।। उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवमात्थ माम् । अलोकसामान्यमचिन्त्यहेतुकं द्विषन्ति मन्दाश्चरितं महात्मनाम् ॥७॥ विपत्प्रतीकारपरेण मङ्गलं निषेव्यते भूतिसमुत्सुकेन वा । जगच्छरण्यस्य निराशिषः सतः किमेभिराशोपहतात्मवृत्तिभिः ॥७६।। अकिंचनः सन्प्रभवः स संपदां त्रिलोकनाथः पितृसद्मगोचरः । स भीमरूपः शिव इत्युदीर्यते न सन्ति याथार्थ्यविदः पिनाकिना ॥७७।१- विभूषणोद्भासि पिनद्धभोगि वा गजाजिनालम्बि दुकूलधारि वा । कपालि वा स्यादथवेन्दुशेखरं न विश्वमूर्तेरवधार्यते वपुः ॥ ७८ ॥ तदङ्गसंसर्गमवाप्य कल्पते ध्रुवं चिताभस्म रजोविशुद्धये । तथाहि नृत्याभिनयक्रियाच्युतं विलिप्यते मौलिभिरम्बरौकसां ॥७९॥ असंपदस्तस्य वृषेण गच्छतः प्रभिन्नदिग्वारणवाहनो वृषा । करोति पादावुपगम्य मौलिना विनिद्रमन्दाररजोरुणाङ्गुली ॥ ८ ॥ विवक्षता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम् । यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति ॥१॥ अलं विवादेन यथा श्रुतस्त्वया तथाविधस्तावदशेषमस्तु सः । ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर्वचनीयमीक्षते ॥ ८२ ॥ निवार्यतामालि किमप्ययं बटुः पुनर्विवक्षुः स्फुरितोत्तराधरः । न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक् ॥८॥ -कुमारसंभवे पञ्चमः सर्गः।