पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 177 ) न वोद्म स प्रार्थितदुर्लभः कड़ा मीभिरनोत्तरमीलिता निर्माम् । तपः कृशामभ्युपपत्स्यते सखीं वृषेव सीतां तदवग्रहक्षतम् १" अगूढसद्भावमितीङ्गितज्ञया निवेदिती नैष्ठिकमन्दरस्तया । अयीदमेवं परिहास इत्युमामपृच्छदव्यञ्जितहर्षलक्षणः ॥ ६२ ॥ अथाग्रहस्ते मुकुलीकृताङ्गुलौ समर्पयन्ती स्फटिकाक्षमालिकाम् । कथंचिद्रेस्तनया मिताक्षरं चिरव्यवस्थापितवागभाषत ॥ ६३ ॥ यथा श्रुतं वेदविदां वर त्वया जनोऽयमुच्चैः पदलङ्घनोत्सुकः । तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते ॥ ६४ ॥ अथाह वर्णी विदितो महेश्वरस्तदर्थिनी त्वं पुनरेव वर्तसे। अमङ्गलाभ्यासरतिं विचिन्त्य तं तवानुवृत्तिं न च कर्तुमुत्सहे ॥६५॥ अवस्तुनिर्बन्धपरे कथं नु ते करोऽयमामुक्तविवाहकौतुकः । करेण शंभोवलयाकृताहिना सहिष्यते तत्प्रथमावलम्बनम् ॥ ६६ ।। त्वमेव तावत्परिचिन्तय स्वयं कदाचिदेते यदि योगमर्हतः । वधूदुकूलं कलहंसलक्षणं गजाजिनं शोणितबिन्दुवर्षि च ॥ ६७ ।। चतुष्कपुष्पप्रकरावकीर्णयोः परोऽपि को नाम तवानुमन्यते । अलक्तकाङ्कानि पदानि पादयोर्विकीर्णकेशासु परेतभूमिषु ॥ ६८ ।। अयुक्तरूपं किमतः परं वद त्रिनेत्रवक्षः सुलभं तवापि यत् । स्तनद्वयेऽस्मिन्हरिचन्दनास्पदे पदं चिताभस्मरजः करिष्यति ॥ ६९ ॥ इयं च तेऽन्या पुरतो विडम्बना यदूढया वारणराजहार्यया । विलोक्य वृद्धोक्षमाधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति ॥७०॥ द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया पिनाकिनः । कला च सा कान्तिमती कलावंतस्त्वमस्य लोकस्य च नेत्रकौमुदी ॥७१॥ वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु । वरेषु यद्बालमृगाक्षि मृण्यते तदस्ति किं व्यस्तमपि त्रिलोचने ॥७२॥ १२