पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(170) सूर्योदये भवति या सूर्यास्तमये च पुण्डरीकस्य । वदनेन सुवदनायास्ते समवस्थे क्षणादूढे ॥ ७ ॥ बकुलावलिका–नन्वेष चित्रगतो भर्ता । उभे--(प्रणिपत्य । ) जयतु भर्ता । मालविका-सखि, तदा संभ्रमदृष्टे भर्तृ रूपे यथा न वितृष्णास्मि, तथाद्यापि मया भावितोऽवितृष्णदर्शनो भर्ता । विदूषकः-श्रुतं भवता । तत्रभवती चित्रे यथा दृष्टस्तथा दृष्टो भवानिति मन्त्रयति । मुधेदानीं मञ्जूषेव रत्नभाण्डं यौवनगर्वं वहसे । राजा -सखे, कुतूहलवानपि निसर्गशालीनः स्त्रीजनः । पश्य । कार्त्स्येन निर्वर्णयितुं च रूप- मिच्छन्ति तत्पूर्वसमागमानाम् । न च प्रियेष्वायतलोचनानां समग्रवृत्तीनि विलोचनानि ॥ ८॥ मालविका----सखि, कैषा पार्थपरिवृत्तवदनेन भर्त्रा मे स्निग्धया दृष्टया निध्यायते । बकुलावलिका—नन्वियं पार्श्वगतेरावती । मालविका-सखि, अदक्षिण इव भर्ता मे प्रतिभाति । यः सर्व देवीजनमुज्झित्वैकस्या मुखे बद्धलक्ष्यः । बकुलावलिका--( आत्मगतम् । ) चित्रगतं भर्तारं परमार्थतः संकल्प्यासूयति । भवतु । क्रीडिष्यामि तावदेतया । सखि, भर्तुर्वल्लभैषा। मालविका-ततः किमिदानीमात्मानमायासयिष्यामि । ( इति सासूयं परावर्तते।)