पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 169 ) राजा- चरणान्तनिवेशितां प्रियायाः सरसां पश्य वयम्य रागरेखाम् । प्रथमामिव पल्लवप्रसूतिं हरदग्धस्य मनोभवद्रुमस्य ॥ ११ ॥ विदूषकः-~~चरणानुरूपस्तत्रभवत्या अधिकार उपक्षिप्तः । -सम्यगाह भवान् । नवकिसलयरागेणाग्रपादेन बाला स्फुरितनखरुचा द्वौ हन्तुमर्हत्यनेन । अकुसुमितमशोकं दोहदापेक्षया वा प्रणमितशिरसं वा कान्तमार्द्रापराधम् ॥ १२ विदूषकः-प्रहरिष्यति तत्रभवती त्वामपराद्धम् । राजा-मूर्ध्ना प्रतिगृहीतं वचः सिद्धिदर्शिनो ब्राह्मणस्य । -मालविकाग्निमित्रे तृतीयोऽङ्कः । The success of the clever move of Vidushaka in securing Malavika for King Agnimitra. (ततः प्रविशति मालविका बकुलावलिका च । ) बकुलावलिका--सखि, प्रणम भर्तारम् । मालविका--नमस्ते। राजा--शङ्के मे प्रतिकृति निर्दिशति । मालविका-(सहर्षम् । द्वारमवलोक्य ।) सखि, मां विप्रम्भयसि। राजा--हर्षविषादाभ्यामत्रभवत्याः प्रीतोऽस्मि ।