पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

राजा---देवि, तस्याः सामाजिका भवामः । देवी--(स्वगतम् । ) अहो अविनय आर्यपुत्रस्य । (सर्वे उत्तिष्ठन्ति ।) विदूषकः-(अपवार्य । ) भोः,धीरं गच्छामः । तत्रभवती धारिणी वादयिष्यति । राजा- धैर्यावलम्बिनमपि त्वरयति मां मुरजवाद्यरागोऽयम् । अवतरतः सिद्धिपथं शब्दः स्वमनोरथस्यव ॥ २२ ॥ ( इति निष्क्रान्ताः सर्वे ।) ---मालविकाग्निमित्रे प्रथमोऽङ्कः । meeting arranged before King Agnimitra ostensibly to test the skill of the rival musician, but really to obtain the sight of Malvika who was closely watched by the Queen.

प्रविशति संगीतरचनायामासनस्थो राजा सवयस्यो धारिणी परिव्राजिका

विभवतश्च परिवारः ।) राजा--भगवति, अत्रभवतोराचार्ययोः प्रथमं कतरस्योपदेशं मः । पारिव्राजिका--ननु समानेऽपि ज्ञानवृद्धभावे वयोवृद्धत्वाद्गण: पुरस्कारमर्हति । राजा--मौद्गल्य, एवमत्रभवतोरावेद्य नियोगमशून्यं कुरु ।। कञ्चुकी-यदाज्ञापयति देवः । (इति निष्क्रान्तः।)