( 158 ) आचार्यौ -यदाज्ञापयति भगवती। विदूषकः-तेन हि द्वावपि वर्गौ प्रेक्षागृहे संगीतरचनां कृत्वा तत्रभवतो दूतं प्रेषयतम् । अथवा मृदङ्गशब्द एव न उत्थापयिष्यति । हरदत्तः--तथा। (इत्युत्तिष्ठति ) (गणदासो धारिणीमवलोकयति ।) देवी-(गणदासं विलोक्य ) विजयी भव । (आचार्यौ प्रस्थितौ) परिव्राजिका-इतस्तावत् । आचार्यौ—(परिवृत्य । ) इमौ स्वः । परिव्राजिका निर्णयाधिकारे ब्रवीमि । सर्वाङ्गसौष्ठवाभिव्य- क्तये विगतनेपथ्ययोः पात्रयोः प्रवेशोऽस्तु । उभौ -नेदमाक्योरुपदेश्यम् । ( इति निष्क्रान्तौ ) देवी-( राजानमवलोक्य ) यदि राजकार्येष्वीदृश्युपायनिपुणतार्यपुत्रस्य, तत शोभनं भवेत् । राजा--- अलमन्यथा गृहीत्वा न खलु मनस्विनि मया प्रयुक्तमिदम् । प्रायः समानविद्याः परस्परयशःपुरोभागाः ॥ ३० ॥ ( नेपथ्ये मृदङ्गध्वनिः । सर्वे कर्णं ददति ।) परिव्राजिका हन्त । प्रवृत्तं संगीतम् । तथा ह्येषा जीमूतस्तनितविशङ्किभिर्मयूरैरुग्रीवैरनुरसितस्य पुष्करस्य । निर्ह्लादिन्युपहितमध्यमस्वरोत्था मायूरी मदयति मार्जना मनांसि॥२१॥
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१६४
दिखावट