सामग्री पर जाएँ

पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 137 ) विद्युल्लेखाकनकरुचिरं श्रीवितानं ममाम्रं व्याधूयन्ते निचुलतरुभिर्मञ्जरीचामराणि । धर्मच्छेदात्पटुतरगिरो वन्दिनों नीलकण्ठा धारासारोपनयनपरा नैगमाश्चाम्बुवाहाः ॥ १३ ॥ भवतु । किमेवं परिच्छदश्लाघया यावदस्मिन्कानने प्रियामन्वेषयामि। (पुनश्चर्चरी पाठस्यान्ते भिन्नकः ।) दायितारहितोऽधिकं दुःखितो विरहानुगतः परिमन्थरः । गिरिकानने कुसुमोज्ज्वले गजयूथपतिस्तथा क्षीणगतिः ॥ १४ ॥ ( अनन्तरे द्विपदिकया परिक्रम्यावलोक्य च सहर्षम् ) हन्त ह व्यवसितस्य मे संदीपनमिव संवृत्तम् । कुतः आरक्तराजिभिरियं कुसुमैर्नवकन्दली सलिलगर्भैंः । कोपादन्तर्बाष्पे स्मरयति मां लोचने तस्याः ॥ १५ ॥ इतो गतेति कथं नु मया तत्रभवती सूचयितव्या ? यतः, पद्भ्यां स्पृशेद्वसुमतीं यदि सा सुगात्री मेघाभिवृष्टसिकतासु वनस्थलीषु । पश्चान्नता गुरुनितम्बतया ततोऽस्या दृश्येत चारुपदपङ्क्तिरलक्तकाङ्का ॥ १६ ॥ ( द्विपदिकया परिक्रम्यालोक्य च सहर्षम् ) उपलब्धमुपलक्षणं तस्याः कोपनाया मार्गोऽ नुमीयते । ?